SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ BXXXXXXXX उत्थायाशनिघोषोऽथ क्षमयामास तौ नृपौ । समानितश्च ताभ्यां संजातास्ते गतमत्सराः ॥ २१४ ॥ अत्रान्तरे केवलिना प्रारब्धा धर्मदेशना। कृतभव्यजनश्रोत्रसुधापूरप्रदेशना ॥ २१५॥ तद्यथा रागद्वेषवशीभूता दुराकूतास्तनूभृतः । नयन्त्यनर्थकं जन्म कृत्वाऽनर्थपरम्पराम् ॥ २१६॥ न मोक्षप्रापणे शक्ता याभ्यां विहितबन्धनाः । रागद्वेषावमू शत्रु यूयं त्यजत भो जनाः ! ॥ २१७॥ श्रुत्वा तां देशनां सम्यक प्रतिवुद्धा नृणां गणाः । केचिदाददिरे दीक्षा श्रावकत्वं तथाऽपरे ॥ २१८॥ पप्रच्छाशनिघोषस्तं सुतारेयं मया प्रभो!। रागोद्रेकं विना हुत्वा नीता निजगृहे कथम् ? ॥२१९ ॥ केवल्यूचे पूर्वभवे पुरे रत्नपुराभिधे । श्रीषेणनामा भूपोऽभूत् जीवोऽस्यामिततेजसः ॥२२०॥ इत्यादि तद्भवान् सर्वान कथयित्वाऽब्रवीत्पुनः। तदाऽभूः कपिलस्त्वं हि सत्यभामा च त्वत्प्रिया ॥ २२१ ॥ सत्यभामा सुतारेयं संजाता कपिलस्तु सः भवं भ्रान्त्वा मनुष्यत्वं कुले लब्ध्या तपस्विनाम् ॥ २२२ ।। कृत्वा बालतपस्तत्र मृत्वाऽभूस्त्वं ततस्त्वया। जहू पूर्वस्वसम्बन्धाद्राजन् ! राग विनाऽप्यसौ ॥ २२३ ।। (युग्मम् त्वय्यसौ विगतस्नेहा पुरातनभवेऽप्यभूत् । अतस्त्वमपि मन्दानुरागोऽस्यां हि प्रवर्त्तसे ॥२२४ ॥ स्वस्तपूर्वभवान् श्रुत्वाऽमिततेजोनृपादयः । हृष्टा ऊचुरहो नास्त्यसाध्यं किमपि ब्रह्मणः ॥ २२५॥ १ दुष्टान्त:करणा:.. XXXXXXXXXXXXXXXXXXXXXXER - :
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy