SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः शान्तिनाथचरित्रम् ॥१८॥ सोनवालदा शास्त्रमेतयेन म पुनर्गृही । धनाशामरक्षणोपायचिन्तयातिप्रयत्न यदितः सप्तमे घने पोतनाधिपतेर्ननु । निपतिष्यत्यचिरांशुः शीर्पोपरि न संशयः ॥ १२१॥ तच्छ्रुत्वा परिपद्वजाहतेवाऽभूत्सुदुःखिता । भणितश्च कुमारेण गाढकोपपरेण सः ॥१२२ ॥ पतिष्यति यदा विद्युत् रे पोतनपुरेशितुः । पतिष्यति तदा शीर्षे त्वदीये किं नु दुर्मते । ॥१२३॥ नैमित्तिकोऽवदन्मह्यं त्वं कुप्यसि कुमार ! किम् ? । यदत्र दृष्टं संज्ञाने भवेत्तज्जातु नान्यथा ॥१२४ ॥ वस्त्राभरणरत्नानां वृष्टिर्मम भविष्यति । राज्ञा प्रोचे त्वया ह्येतन्निमित्तं शिक्षितं कुतः ॥१२५॥ सोब्रवीद्वलदेवस्य दीक्षाकाले मयाऽपि हि । प्रवज्या प्रतिपन्नाऽऽसीत्कियत्कालं च पालिता ॥ १२६ ॥ अधीतं स तदा शास्त्रमेतद्येन भ(मु)णाम्यहम् । सर्वज्ञशासनमृते सम्यग् ज्ञानं न विद्यते ॥१२७॥ पश्चाच विषयासक्तोऽभूवं राजन् ! पुनही । धनाशयेहाऽऽगतोऽस्मि कृतदारपरिग्रहः ॥१२८ ॥ ज्ञात्वा सत्यं निमित्तं तत् राजलोकोऽखिलस्तदा। स्वस्वामिरक्षणोपायचिन्तयाव्याकुलोऽभवत् ॥१२९ ॥ तत्रैको न्यगदन्मन्त्री यत् स्वामी सप्त वासरान् । यानारूढः समुद्रान्तर्धियतेऽतिप्रयत्नतः ॥१३०॥ द्वितीयः स्माह पानीये विद्युद्यद्यपि न स्फुरेत् । तथापि यानपात्रे तांपतन्ती को निवारयेत् ॥१३१ ।। तस्माद्वैताक्ष्यशैलस्यातिगूढे कन्दरागृहे । प्रक्षिप्य रक्ष्यते स्वामी विद्युत्पातभयात्किल ॥१३२ ॥ तृतीयोऽप्यवदनायमुपायोऽपि शुभावहः । प्रत्युतापायहेतुः स्यात् दृष्टान्तोत्र निशम्यताम् ॥ १३३ ॥ १ विद्युत ॥१८॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy