SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ शान्तिनायचरित्रम् द्वितीयः प्रस्ताव तदतवचनात श्रुत्वाऽश्वग्रीवः क्रोधदुर्द्धरः । विद्याधरभटान प्रेपीत हन्तुं तानात्मनो द्विपः ॥६६॥ ते पोतनपुरं प्राप्ताः प्रहरन्तोऽयनोदिताः । लीलयैव जिताः सर्वे त्रिपृष्ठेन महौजसा ॥६७॥ प्रोक्ताश्चेदं यथाऽख्ययं खरग्रीवस्य तस्य भोः। चेच्छूरोऽसि तदाश्वेहि स्थावऽस्तु नौ समित ॥ ६८ ॥ तैश्च गत्वा तथाऽऽख्याते स विद्याधरसैन्ययुक् । तत्राऽऽययौ त्रिपृष्ठश्च ससैन्यः श्वशुरालये (चले)॥ ६९ ॥ सतोऽग्रसैन्ययोयुद्धे जाते विद्याधरैः कृताः । रक्षोव्याघ्रपिशाचाद्या हिंस्राः परविनाशकाः ॥७ ॥ त्रिपृष्ठसेना तद्भीता पलायिष्ट ततः स्वयम् । डुढौके खेचरैर्योद्धं रथारूढोऽचलानुजः ॥ ७१॥ शङ्खच पूरयामास तन्नादेन निजं बलम् । युद्धसज्ज पुनरभूत परानीकं च विद्रुतम् ॥ ७२ ॥ बुढौके स्वयमश्वोऽपि योद्धं स्यन्दनसंस्थितः। त्रिपृष्ठेन सम सिंहः शरभेणेव सत्वरम् ॥ ७३॥ दिव्यास्त्रैर्युयुधे सोऽथ त्रिपृष्ठस्तानि लीलया । सर्वाण्युच्छेदयामास तमांसीव विकर्तन: ॥७४॥ ततश्च सोऽमुचचक्रं त्रिपृष्ठाय भयावहम् । तच वक्षसि तुम्बेन प्राजापत्यमताडयत् ॥ ७५॥ स्थितं तत्रैव तदथोपादाय तमुवाच सः । कृत्वा मम नमस्कार रे स्वमार निवारय ॥७६॥ अश्वग्रीवोवदन्मृत्युर्वरं वैरिप्रणामतः । तन्मुञ्च चक्रं को वक्र दैवं नामानुकूलयेत् ॥७७ ॥ ततो मुक्तं त्रिपृष्ठन छिच्चा तस्य शिरोधराम् । पुनरागात त्रिपृष्ठस्य समीपेऽसौ(दः) सुदर्शनम् ॥ ७८ ॥ १ स्वामिप्रेरिताः. २ सूर्यः. ३ मारिमू.
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy