SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ -- -- शान्तिनाथचरित्रम् ॥ १७३॥ प्रस्ताव --- - - बहिर्गतोऽप्युपायेन वञ्चनीयो मया ह्ययम् । इति ध्यात्वाऽमुनाऽऽकृष्टो रसकूपादसौ ततः ॥१२५० ॥ निःसृत्य विवरात्तस्माद्ग्रामोपान्तमुपागतः। ऊचे त्रिदण्डी भो भद्र ! सिद्धास्तव मनोरथाः॥१२५१॥ रसेनाऽनेन संसिक्तं लोहं प्रज्वाल्य वह्निना । करिष्यते जातरूप जातरूपं शरीरिणाम् ॥१२५२ ॥ किञ्चिदग्रेतन तस्यार्पयित्वाऽथ सुवर्णकम् । योगी साह वराहार वत्स ! साम्प्रतमानय ॥१२५३ ॥ वासोयुग्मं च प्रत्येकं मम चाऽऽत्मकृते त्वया। आनेतव्यं यतो लक्ष्म्या एतदेवादिम फलम् ॥ १२५४ ॥ व्याघ्रो व्यचिन्तयत् सत्यं ममाऽयं हितकारकः । अर्पयामास कनकमात्मीयं कथमन्यथा ॥ १२५५ ॥ यत्स्वस्य हेतवे भोज्यवस्ने चाऽऽनाययत्यसौ। तन्मन्ये मे हिताधायी निश्चितं न हि वश्चकः ॥ १२५६ ॥ ततोऽसौ योगिनः पार्श्वे विमुच्य रसतुम्बकम् । गत्वा ग्रामे मण्डकादिवरभोज्यमकारयत् ॥ १२५७ ॥ घटकर्परयोस्तच निक्षिप्य जलपूतयोः । वासांस्यपि समादाय यावदागादासो बहिः ॥१२५८॥ तावदने गतो योगी रसालावुयुतः क्वचित् । तमपश्यन्नथो व्याघ्रो मुष्टोऽस्मीत्यवदद्वचः ॥ १२५९ ॥ युग्मम् ॥ विमुच्याऽहारपाने ते वस्त्राणि च तरोस्तले। पपात मूर्छया पृथ्यां लब्धसंज्ञो जगाद च ॥ १२६०॥ हादेव! मत्समः कोऽपि किमन्यो नास्ति भूतले । अहमेव दुःखभाण्डागारिको यत्कृतस्त्वया ॥ १२६१ ॥ आदौ निर्धनता तावत्सेवा विफलिता ततः । हानिश्च रसरत्नानामहो दुःखपरम्परा ॥१२६२॥ ततो से मरणं श्रेय इत्युक्त्वा वटपादपे । आरुह्य तस्य शाखायां स्वमुद्वध्धुं समुद्यतः ॥१२६३ ॥ Brotect ॥ १७३॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy