SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ महीपालोऽप्यभाषिष्ट हृष्टः समुपलक्ष्य तम्। निजपुण्यार्जितां लक्ष्मी त्वं च सुक्ष्व चिर सुत!॥ ११५८॥ जातस्तवदर्शने वत्स! हर्षवल्लोलवानहम् । सरस्वानिव शीतांशोरुदये हि विदूरगः ॥११५९ ॥ उत्थायाऽऽदाय बाहुभ्यां शूरपालं ततः पिता। निवेशयामास सिंहासने नीतिविशारदः ॥११६०॥ राज्यप्रतिष्ठितः पुत्रो वन्द्यः पित्राऽपि साञ्जसम्। राजनीतिरिय येन महीपोलोऽपि तद्वयधात् ॥ ११६१ ॥ भणितैवं प्रियैर्वाक्यैर्गुरुणा शीलमत्यपि । जीवलोके त्वमेवैका पुत्रि! धन्याऽसि सर्वथा ॥११६२ ।। यस्या मनोरथानामसंभाव्यानामपि स्फुटम् । जाता सिद्धिः समस्तानां स्त्रीरत्नं तत्वमेव हि ॥ ११६३ ॥ रक्षितं यत्त्वयाऽनन्यसदृशं शीलमात्मनः । विहिता पत्युराज्ञा च तत्ते तुल्याऽपरात्र का?॥ ११६४ ॥ याऽभूत् पदे पदे पूर्व तस्य संतापकारिणी । साऽपि जाता स्तुतिपदं प्रभावो मुव्यहोश्रियः॥ ११६५॥ सोचेऽपमानता तात! सफला मे तवाऽभवत् । गुरूणामपमानोऽपि यतः स्याद्वाञ्छितप्रदः॥ ११६६ ॥ यदि त्वमपमानं मे तदा नाऽदर्शयिष्यथाः। आगमिष्यत्ततश्चात्र कथं तात! तवाऽऽत्मजः ॥ ११६७॥ अलप्स्यत कथं राज्यं गौरवं भवतां कथम् । अकरिष्यदसौं मे वाऽपूरयिष्यत् कथं प्रियम् ॥११६८॥ एवमुक्त्वा स्थिता साऽथ शुरपालो नरेश्वरः। उद्दिश्य सर्वसामन्तानदोवादीत् प्रगल्भवाक् ॥ ११६९॥ भोभो। मे जनकोऽयं हि ममैते भ्रातरस्तथा। इयं माता अंजावत्यस्तिस्रश्चता मम स्फुटम् ॥ ११७० ।। १ श्वशुरेण । २ भ्रातृभार्याः ।
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy