SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ शान्तिनायचरित्रम् ॥१६८॥ प्रस्ताव राज्ञाऽथ दापितं तस्याः प्रचुरं गोरसादिकम् । सा संप्राप्ता निजे गेहे भणिताश्वशुरादिभिः ॥ १११७ ।। कूपसं त्वं नवं वत्से ! परिधेहि यतो गता। विगुप्यसि नृपावासे सा तच्चक्रे न तद्वचः ॥ १११८ ॥ द्वितीयदिवसे प्रोक्ता सा राज्ञा सदने गता । गृहाण वाखाणं त्वममुं भद्रे ! मयाऽर्पितम् ॥ १११९ ॥ ततः सा तमगृह्णन्ती क्रुद्धेनेव महीभुजा । अभाणीदमकुर्वत्या भविता सुन्दरं न ते ॥११२०॥ साध्वोचत्सुन्दरं देव! भवताद्वा असुन्दरम् । अहं हि न करिष्यामि निजनिश्चयखण्डनम् ॥ ११२१ ॥ यत:-"आयातु यातु वा लक्ष्मीर्यत्तद्वा वदताजनः जीवितं मरणं वाऽस्तु सतां न्याय्यक्रियावताम्" ११२२ इयं रे क्षिप्यतां गुप्तौ ममाज्ञाभङ्गकारिणी । इत्यादिष्टैनेरै राज्ञा चालिता साऽथ तां प्रति ॥ ११२३ ॥ एवं कृतेऽपि सा यावन्न मुमोच स्वनिश्चयम् । ततस्तुष्टेन भूपेनाऽऽनायिता स्वान्तिकं पुनः ॥ ११२४ ॥ ऊचे च कारणेन त्वं केन भद्रे! न मुश्चसि । जीर्णमेतं चारवाणमङ्गवरूप्यकारकम् ॥११२५॥ साऽप्यवादीदियं वेणी मम भर्चा विनिर्मिता । तेनेवाऽहं स्वहस्तेन कञ्चुकं परिधापिता ॥११२६ ॥ ततोऽयं मुच्यते देव ! भर्तुरेव करेण मे । सोऽब्रवीत्तव भताऽहं भवामि त्यज कञ्चकम् ॥ ११२७॥ भणितं च तया नेदं वक्तुमप्युचितं तव । यतस्त्वं मेदिनीपालो दुर्नीतिपरिरक्षक: ॥११२८॥ दुःशीलः(ले.) परिभूतानां सतीनांशीलखण्डनम् । ततः सत्यमिदं जातं यतो रक्षा ततो भयम् ॥ ११२९ ।। अन्यच्च-गोत्रं विगोपितं तेन पौरुप चरितं तथा। भ्रामितो मेदिनीपीठे यशःपटहकोऽखिले ॥ ११३० ।। ॥१६८॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy