SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ACCEP A -- - - भृतकानां हि सर्वेषामेकैको रूपकः प्रभो!। दीयते कणभक्तं च मध्यमं युष्मदाज्ञया ॥ ११०६॥ पुन पोऽब्रवीदेषां साधुकर्मविधायिनाम् । विशेषः क्रियतां कश्चियेनेदं पठ्यते जने ॥ ११०७॥ साध्वसाधुजने स्वामी निर्विशेषो यदा भवेत् । तदा साधुगुणोत्साहः साधोरपि न वर्धते ॥ ११०८॥ अमीषां द्विगुणां वृत्तिः कणभक्तमथोत्तमम् । देयमित्युदिते राज्ञा तान्या(ना)हय जगाद तत् ॥ ११०९॥ हहो युष्माकमार्येण प्रसादोऽयं विनिर्मितः । महाप्रसाद इत्युच्चमहीपालादयोऽवदन ॥१११०॥ राज्ञोचे द्विकलत्रोऽस्ति किमेकस्तनयस्तव । निरीक्ष्यन्ते त्रयोऽमी यच्चतस्रश्च तथाऽपरा ॥ ११११॥ पुत्रप्रवासवार्ताऽस्य ततस्तेन निवेदिता । कुतस्त्वमागतोऽसीति पुनः पप्रच्छ तं नृपः ॥ १११२ ॥ तेनापि काश्चनपुरादिति प्रोक्ते नृपेण सा । शीलमत्यात्मनो गेहमाहूता तहेतवे ॥१११३ ॥ ततश्चाऽगान्नपो गेहं जनः सर्वो विसिमिये । केनाऽपि सह नःस्वामी नैतावजल्पतीत्यहो!॥१११४॥ साऽथ शीलमती प्राप्ता गोरसार्थ नृपौकसि । तदादिष्टप्रतीहार्या कथिता सा महीभुजः॥१११५॥ तेन सा भणिता भद्रे! कञ्चुकः कितवेदृशः लज्जावनम्रया किञ्चित्तया चन हि जल्पितम् ॥ १११६॥ १ एतच्श्लोकानन्तरम् - "पृष्टश्च भूभुजा वृद्धः किमेतैः सह तात ! ते । कोऽपि स्वजनसंबन्धो न वेति धृतस्मृतः ॥१॥ अङ्गुल्या दर्शनात् सोऽथ देवेयं मम गेहिनी । एतेऽथ तनया एता जनन्या वध्वश्च यत् ॥ २॥” इति प्रक्षिप्तश्लोकद्वयमशुद्धप्रायक्वचित्पुस्तके टिप्पनिकारूपेण दृष्टं प्रकृतसंबन्धोपयोगित्वादिहापि टिप्पनिकारूपेणैव यथावस्थ न्यस्तमस्माभिः प्रसिद्धिकर्तृभिः । XXXXXXXXXXXXXEEXXEX-XXBEER
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy