SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ अस्तीह भरते रम्यं श्रीकाश्चनपुरं पुरम् | ऋद्धयाऽमरपुरप्रख्यं विख्यातमवनीतले ॥१०००॥ जितारिर्नाम भूपालो मरालोज्ज्वलसद्यशाः । बभूव विक्रमी तत्र तस्य राज्ञी सुलोचना ॥१००१ ।। महीपालोऽभिधानेन क्षत्रजातिः कृषीवलः । अवात्सीनगरे तत्र भार्या तस्य च धारिणी ॥ १००२॥ समजायन्त धरणीधरः कीर्तिधरस्तथा । पृथ्वीपालः शूरपाल इति पुत्रास्तयोः क्रमात् ॥१००३ ॥ चन्द्रमती कीर्तिमती शान्तिशीलमतीद्वयम् । इत्यभूवन प्रियास्तेषां चतस्रः क्रमयोगतः ॥१००४॥ महीपालसुतास्तेऽथ वर्षाकालेऽन्यदा ययुः । कर्म कर्तु निजक्षेत्रे समुत्थाय निशात्यये ॥१००५॥ पश्चात्तेषां प्रियास्तत्र यावत् प्रचलितास्तदा । अतनिष्ट घनो वृष्टि विद्युद्गारवोत्तरः ॥ १००६ ॥ प्रत्यासन्नवटेऽथैतास्तत्पयो वञ्चितुं गताः। तस्यैकदेशमाश्रित्य तस्थुश्च निरुपद्रवाः ॥१००७॥ तत्पृष्ठे श्वशुरस्तासामागात सोऽपि भयादपाम् । द्वितीयं देशमाश्रित्य तस्थौ तस्यैव शाखिनः ॥१००८॥ अजानन्त्यो महीपालमेकान्तत्वादशङ्किताः । स्वेच्छालापममुं चक्रश्चन्द्रमत्यादयोऽथ ताः॥१००९ ॥ शुश्राव श्वशुरोऽप्यासामालापं निभृतस्थितः । ऊचेऽथ चन्द्रमत्येवं ब्रूत स्वरुचितं हला:1॥ १०१०॥ शीलमत्यवदत कर्णा वृतेरपि भवन्ति यत् । स्वभावकथनं तन्न युक्तमत्रेति मे मतम् ॥१०११॥ इतरा स्माह मा भैस्त्वं यतो नास्त्यत्र कश्चन | सोचे तर्हि क्रमेणोच्या सर्वाभिः स्वस्वकामना ॥ १.१२॥ १ जलानाम् ।
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy