SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ EXXXXXXXXXXXXXXXXXXXXXX गत्वा नत्वाऽमुनेत्युक्तः प्रजापतिनरेश्वरः । यदस्माकं विभुर्विद्याधरेन्द्रो ज्वलनाभिघः ॥२६॥ कन्यां स्वयंप्रभानाम्नी त्रिपृष्ठाय सुताय ते। प्रभो! दित्सति तेनाहं प्रेषितोऽस्मि तवान्तिकम् ॥ २७॥ ऊचे प्रजापतिः कार्यमेतत् बहुमतं मम । वलित्वाऽऽगत्य दूतोऽपि तदाचख्यौ स्वभूभुजे ॥२८॥ इतोऽश्वग्रीवभूपेनाश्वविन्दुईष्टप्रत्ययः। पृष्टो नैमित्तिको मृत्युर्मम भावी कुतो न्विति मात्तका मृत्युमम भावी कुतो न्विति ॥२९॥ सोऽवदच्चण्डवेगं ते यो दूतं धर्षयिष्यति । शालिक्षेत्रापकर्तारं हनिष्यति हरिं च यः ॥३०॥ स ते हन्तेति श्रुत्वा तं सत्कृत्य व्यसृजन्नृपः । पुत्रौ प्रजापतेः क्रूराविति लोकाद्विवेद च ॥३१॥ तेनाथ प्रेषितो राज्ञा ययौ दूतोऽस्खलद्गतिः। प्रजापतिनृपास्थाने भवत्प्रेक्षणनिर्भरे। ॥३२॥ सद्यः प्रेक्षणरङ्गस्य भङ्गं दृष्ट्वा कुमारको । त्रिपृष्ठाचलनामानौ तस्मै चुकुपतुर्भृशम् ॥३३॥ दूतः सत्कृत्य राज्ञाऽसौ विसृष्टश्चलितश्च सः । त्रिपृष्ठाचलयोरग्रे कथितस्तत्पदातिभिः ॥३४॥ ताभ्यां गत्वा मुष्टिपाणिप्रहारेण निपीडितः । तद्रङ्गभङ्गाविनयं स्मारयद्भ्यां मुहुर्मुहुः ॥३५॥ श्रुत्वा प्रजापती राजा सुतयोस्तद्विचेष्टितम् । तं दूतं क्षमयामाम सच्चक्रे च विशेषतः ।। ३६ ॥ तदुतधर्पणं चारमुखेनाश्वनृपोशृणोत् । पश्चात् स चण्डवेगोऽपि तत्समीपमुपागतः ॥३७॥ ज्ञातोदन्तं नृपं ज्ञात्वा सोऽथ तस्मै यथातथम् । आख्याय पुनरप्यूचे देवेदं वालचेष्टितम् ॥३८॥ १ सिहम्.
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy