________________
शान्तिनाथचरित्रम् ॥१४॥
द्वितीयः प्रस्ताव:
कुरु पारणकं तावत् पुत्रीत्युक्त्वा विसृज्य ताम् । आकार्य मन्त्रिश्चात्मचिन्तितं तदजिज्ञपत् ॥१२॥ उवाच सुश्रुतस्तेषु देव ! रत्नपुरे वरे । मयूरग्रीवस्तत्पुत्रोऽश्वग्रीवोऽस्ति खगेश्वरः ॥१३॥ भरतामहीभर्त्ता युक्तः पुच्या वरो हि सः । बहुश्रुतोऽवदच्चैतन्त्र युक्तं प्रतिभाति मे ॥१४॥ यतोऽयं वर्तते वृद्धस्तदन्यः कोऽपि रूपवान् । वयःशीलकुलैस्तुल्यो वरः पुत्र्याः करिष्यते ॥१५॥ ततो लब्धावकाशेन प्रोचे सुमतिमन्त्रिणा । यथा देवोचरश्रेण्यां पुरी नाम प्रभङ्करा तत्र मेघधनो राजा तद्भार्या मेघमालिनी । पुत्रो विद्युत्प्रभः पुत्री ज्योतिर्माला तयोर्वरा ॥१७॥ योग्यो विद्युत्प्रभः सोऽस्या युष्मत्पुत्र्याः पतिस्तथा। ज्योतिर्माला कुमारस्य पत्नी भवितुमर्हति ॥१८॥ भणितं च ततोऽन्येन श्रुतसागरमन्त्रिणा । देवास्या युज्यते कर्तु कन्यकायाः स्वयंवरः ॥१९॥ श्रुत्वेदं मन्त्रणं राजा मन्त्रिणो विससर्ज तान् । संभिन्नश्रोतःसंज्ञं चापृच्छन्नैमित्तिकोत्तमम् ॥२०॥ नैमित्तिकोऽबदद्राजन् ! यो पोतनपुरेशितुः । पुत्रौ प्रजापते राज्ञस्त्रिपृष्ठाचलसंज्ञको ॥२१॥ तावत्र भरते विष्णुवलभद्रो भविष्यतः । प्रतिविष्णुममुं चाश्वग्रीवं व्यापादयिष्यतः । ॥२२॥ इति साधुमुखाद्वाक्यं मया श्रुतमतः परम् । स्वज्ञानेनापि विज्ञाय कथयामि महीपते ! ॥२३ ॥ तुभ्यं विद्याधरेशत्वं स त्रिपृष्ठः प्रदास्यति । एषा स्वयंप्रभा चाग्र्यमहिषी तस्य भाविनी ॥२४॥ ततश्च परितुष्टोऽसौ राजाऽभ्यर्च्य विसृज्य तम् । प्रेषयामास दूतं च मारीचिं पोतने पुरे ॥२५॥
॥१४॥