________________
गुणवतम् । भेटायाः कथा(थे।
पध्यानं स
तद्भूषणान्युपादाय जग्मुस्ते स्थानमात्मनः । आर्तध्यानवती सा तु विपद्य नरकं ययौ ॥८९६ ॥
॥ इत्युपभोगपरिभोगयोः कथा(थे)॥ . अनर्थदण्डविरतिः स्यात्तृतीयं गुणवतम् । भेदास्तस्येह चत्वारो विज्ञेयाः कीर्तयामि तान् ॥ ८९७ ॥ तत्र स्याद्यदपध्यानं स भेदः प्रथमस्तथा । प्रमादाचरितं नाम भवेद् भेदो द्वितीयक: ॥८९८॥ हिंस्रप्रदानसंज्ञश्च तृतीयो भेद उच्यते । तुर्यः पापोपदेशश्च भेदोऽनर्थस्य भाषितः ॥८९९ ॥ अत्रोदाहरणं राजन् ! शृणु त्वं कीर्तयाम्यहम् । अस्तीह धातकीखण्डभरते रैपुरं पुरम् ॥९००॥ यथार्थनामा तत्रा भूद्रिपुमर्दनभूपतिः । समृद्धदत्तसंज्ञश्च विख्यातोत्र कुटुम्बिकः ॥९०१॥ सुसजागरितोऽन्येयुः स एवं पर्यचिन्तयत् । यदि मे जायते लक्ष्मीस्ततो राजा भवाम्यहम् ॥९०२॥ पटखण्डं भरतक्षेत्र साधयिष्याम्यहं ततः । वैताद्ध्यवासिनो विद्यां दास्यन्ति मम खेचराः ॥९०३॥ ततो विद्याबलेनाऽहं गमिष्यामि विहायसा । इत्यावेशात्स शय्याया उत्पपाताम्बरं प्रति ॥९०४ ॥ पपात सहसा पृथ्व्यां पीडितश्च तनौ दृढम् । क्रन्दन्नुत्पाट्य शय्यायां प्रक्षिप्तो गृहमानुषैः ॥९०५॥ वेदनोपशमोऽस्याऽभूत् कष्टेन महता ततः । जातः स्वस्थशरीरश्च स स्वगेहमपालयत् ॥९०६॥ इतोऽस्य विद्यते खड्गश्चारुलोहविनिर्मितः । क्रीतः प्रभूतद्रव्येण विदितो विषयेऽखिले ॥९०७॥
१. देशे।