SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ शान्तिनामचरित्रम् ॥ १५८॥ पष्ठः प्रस्ताव तेऽप्यवोचन चणिज्येन चिलातविषये वयम् । गत्वोपाय॑ बहु धनं पुनरत्र समागताः ॥८५५॥ ततः क्रयाणकं किञ्चिद् गृहीत्वा शम्बलादिकम् । सहितो बहुसार्थेन तं देशं प्रति सोऽचलत॥ ८५६ ॥ संप्राप्तश्च महातप्तवालुकाभिधवर्त्मनि । गच्छति स्म तमुल्लंध्य हिममार्गेऽतिशीतले ॥८५७॥ ततश्च गिरिमार्गेऽसावत्यन्तविपमे ययौ । लोभाभिभूतः पुरुषः किं किं तन करोति यत् ॥ ८५८ ।। यावच्चिलातदेशस्य समीपे गतवानसौ । विरोधो म्लेच्छभूपे स्यादन्यभूपेः समं तदा ॥८५९॥ चिलातदेशं यातीति स सार्थः शिष्टराजभिः । सर्वसारमुपादाय वालितः स्वगृहान् प्रति ॥८६॥ स्वयंभूदेवस्तद् दृष्टिं वञ्चयित्वा कथञ्चन । गतस्तत्र गृहीतश्च भिल्लानां डिंभरूपकैः ॥८६१ ॥ हस्तयोः पादयोध्ध्वा रुधिरेण विलिप्य च । मुच्यते स्माटवीमध्ये स तैर्नीत्वा दुरात्मभिः ।। ८६२ ॥ निपेतुर्मृतकभ्रान्त्या तत्र गृध्रा अनेकशः । तीक्ष्णचञ्चप्रहारौघैस्ताडयन्ति स्म तं च ते ॥८६३ ॥ हत्त्वा बाणैरथो गृधान सायं ते भिल्लनन्दनाः । स्वयंभूमानयन्ति स्म गेहे विगतवन्धनम् ॥८६४ ॥ भोजयित्वा च यत्नेन धारयन्ति स्म मन्दिरे । एवं दिने दिने दुःखं दर्शयामासुरस्य ते ॥८६५ ॥ अन्यस्मिन् दिवसे यावत्तथा कृत्वा धृतोऽस्ति सः। तावत्तत्राऽऽययौ व्याघ्री नष्टास्ते भिल्ल्यालकाः ॥८६६॥ व्याघ्याचोत्पाय्य नीतोऽसौ स्थापत्यार्थ वनान्तरे।तुत्रोट दंष्ट्रया चाऽस्याः करांघ्योस्तस्य बन्धनम् ।।८६७॥ विमुच्य तमथो व्याघ्री बालान्वेषणहेतवे । ययौ बनान्तरे नंष्ट्वा स्वयंभूरपि सत्वरम् ॥८६८॥ १५८॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy