________________
प्रथमं दिव्रतं भोगोपमोगव्रतमेव च । अनर्थदण्डश्चेति स्यात्रिविधं तद्गुणवतम् ॥८४२ ॥ यत् पूर्वादिषु काष्ठासु तिर्यगृर्ध्वमधस्तथा । क्रियते परिमाणं तत्स्याद्गुणवतमादिमम् ॥ ८४३ ॥ प्रामोत्यनेक्दुःखानि जीवोऽस्मिन्नकृतावधिः । यथा स्वयंभूदेवाख्यः संप्राप्तो म्लेच्छनीवृतम् ॥ ८४४ ॥
अस्त्यनेककृतावाससंक्टं श्रीवशंकटम् । पुरं गङ्गातटं नाम विपक्षाणां महोत्कटम् ॥८४५॥ तत्राऽपसर्पद् दूतौघैः प्रतिराष्ट्र नियोजितैः । ज्ञातसर्वनृपोदन्तः सुदन्तः पार्थिवोऽभवत् ॥८४६ ॥ तत्र स्वयंभूदेवाख्यो वसति स्म कुटुम्बिकः । कृप्यादिकर्मनिरतः संतोपपरिवर्जितः ॥८४७ ॥ निद्राविरामे सोऽन्येयू रात्रावेवमचिन्तयत् । इह स्थितस्य मे लाभो न मनोवाञ्छितो भवेत् ।। ८४८ ।। ततो देशान्तरे क्वापि गत्वा लक्ष्मीमुपाय॑ च । सर्वथा पूरयिष्यामि सर्वानिजमनोरथान् ॥८४९ ॥ ततो विधाय सामग्री स चचालोत्तगपथम् । ययौ च शनकैर्लक्ष्मीशीर्षके नगरे वरे ॥८५० ॥ प्रविश्याऽभ्यन्तरे तत्र व्यवहारं प्रकुर्वतः । तादृग्लाभो भवेत्तस्य यादृक् सृष्टः स्वकर्मणा ॥८५१ ॥ अन्यदाऽन्यत्र नगरे स वभ्राम धनाशया । जानाति स्म वराको न लोकरूढमिदं वचः ॥८५२ ॥ श्रूयमाणाः शुभा देशा राजानः सेवितास्तथा । सर्व दूरस्थितं वस्तु स्यात्यायो विस्मयावहम् ॥ ८५३ ॥ प्राप्तेन नगरे क्वापि वणिजः केऽपि वीक्षिताः। पृष्टास्तेन च भो! यूयं कुतो देशात्समागताः ॥ ८५४ ॥ १. म्हेच्छदेशम् ।