SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रम् ॥१५७॥ पष्ठः प्रस्ताव याचकश्रमणादिभ्यो ददद्दानमसौ क्रमात् । बभूव श्रावकः किंतु मनस्येवमचिन्तयत् ॥ ८२९ ॥ हा मया प्रचुर दत्तं न दानसमयोऽधुना । अतः परं न दास्यामि दत्तेनाऽपि गुणोच का॥ ८३०॥ वरं हि बन्दिनां दानं गोत्रख्यातिविधायकम् । दत्तेन किमु साधूनां ये प्रशंसां न कुर्वते ॥ ८३१ ॥ भावैमनोगतैरेवं तारचन्द्रोऽन्तरान्तरा । बबन्ध निर्विवेकत्वादृढं कर्मान्तरायकम् ॥८३२॥दृष्ट्वा साधून पुनर्दानश्रद्धा तस्याऽभवद्वरा । एवं चाऽनेकधा दत्तं खंडितं तञ्च दुधिया ॥ ८३३ ॥ सोऽन्ते समाधिना मृत्वा सौधर्मे त्रिदशोऽभवत् । ततश्युत्वा समुत्पन्नः सौम्य त्वं श्रेष्ठिनन्दनः।।८३४ ॥ तद् भो! दानं मनःशुध्ध्या दातव्यं सुविवेकिभिः। अन्यदप्यखिलं धर्मकृत्यं स्यात् सफलं तया।। ८३५ ।। प्रतिबुद्धोऽथ सुलसो जजल्पैवं नृपं प्रति । ग्रहीष्यामि परिव्रज्यां नृनाथ विसृजाऽद्य माम् ॥ ८३६ ॥ उवाच राजाऽहमपि प्रतिबुद्धोऽस्मि सुन्दर !। निवेश्य तनयं राज्ये प्रव्रजिष्यामि निश्चितम् ॥ ८३७ ॥ गुरुं नत्वा गृहे गत्वा कृत्वा पुत्रं च पार्थिवम् । तौ राजसुलसौ धन्यौ दीक्षामाददतुस्ततः ॥८३८ ॥ चक्रतुस्तौ तपोऽत्युग्रं संवेगपरिभावितौ । उत्पाद्य केवलज्ञानं सुलसस्तु ययौ शिवम् ॥८३९ ॥ चक्रायुध महाराज ! पञ्चमाणुव्रते तव । सुलसोऽयं समाख्यात इति शान्तिजिनोऽवदत् ॥८४०॥ ॥इति परिग्रहप्रमाणे सुलसकथा ॥ अणुव्रतानि पश्चापि कथितानीति ते मया । इतो गुणव्रतानि त्वमाकर्णय महीपते । ॥ ८४१॥ ॥ १५७॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy