________________
पष्ठः
शान्तिनापचरित्रम् ।
प्रस्ताव:
देवोऽपि हि तथा कृत्वा जगाम स्थानमात्मनः । सुलसागमनं तत्र जानाति स्म नरेश्वरः ॥८०२॥ पुरप्रवेशं चक्रे च. तस्याऽभिगतिपूर्वकम् । उचितज्ञः सुलसोऽपि भूपस्योपकृति व्यधात् ॥८०३ ॥ गृहं गतोऽथ सुलसः पूजितः प्रियया तया । प्रावति च गृहे वर्धापनकं सुकुलीनया ॥८०४॥ वेश्या कामपताका सा वेणीवन्धसितांशुकैः । शोमिता ददृशे तेन सुभद्रायाः समीपगा ॥८०५॥ बभूव गेहिनी साऽपि सुलसस्याऽनुरागिणी । स एवं बुभुजे भोगाँस्ताभ्यां सह विरागतः ॥८०६ ॥ सोऽन्यदा चिन्तयामास जीव! रे लोभलम्पट !। किं किं ते नाऽभवदःखं परिग्रहमिति विना ।। ८०७॥ मनसैव व्यधात सोऽथ परिमाणं परिग्रहे । शेष धर्मव्यये द्रव्यं ददौ देवगृहादिपु ॥८०८॥ कियत्यथो गते काले क्षीणं तदपि तद्धनम् । सरोजलमिव ग्रीष्मे पुरा विहितकर्मणा ॥८०९॥ ततः श्याममुखः किश्चित्स यावत्सुलसोऽभवत् । तावत्सोऽवधिना ज्ञात्वा निर्जरः पुनराययौ ।। ८१०॥ ऊचे च दुर्मनाः किं त्वं दृश्यसे श्राद्धपुङ्गव! । मयि मित्रेऽनुकूले ते का चिन्ता विभवस्य भोः॥१॥ ८११॥ इत्युदित्वा सुवर्णानां राशीस्तस्य गृहाजिरे । स सद्यः प्रकटीचक्रे तुष्टो धनदवत् क्षणात् ॥८१२ ॥ जजल्प सुलसो द्रव्यमेतावत्संमतं न मे । यतोऽस्ति विहितं मानं मया मित्र ! परिग्रहे ॥८१३ ॥ देवोऽप्युवाच भोः श्राद्ध ! साध्विदं विहितं त्वया। अस्मिँश्च विषये येन पठ्यतेऽदस्तपोधनैः ।। ८१४ ।।
१- गृहांगणे ।
१५६ ॥