SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ शान्तिनायचरित्रम् ॥ १५५ ॥ प्रस्ताव युद्धं प्रकुर्वतोरेवं तयोर्जाता विभावरी । एकस्यां तरुशाखायामुद्योतथाऽभवत्तदा ॥ ७७६॥ सुलसोऽनलसः सोऽथ किमेतदिति विस्मितः । एकस्य पक्षिणो नीडे ददशैकं मणि वरम् ॥७७७ ॥ सर्पास्थीनि च तत्पार्श्वे विलोक्यैवं व्यचिन्तयत् । नूनमेतद्भुजङ्गस्य फणारत्नं विपापहम् ॥ ७७८ ॥ कृत्वा करतलस्थं तदुत्ततार तरोरसौ । अग्निवत्तेजसा तस्य व्याघ्रसिंहौ प्रणेशतुः ॥७७९॥ विभातायां त्रियामायां वस्त्रग्रन्थौ निवध्य तत् । प्राप्तः पारमरण्यस्य सुलसः सप्तभिर्दिनैः ॥ ७८०।। एकत्र पर्वते रात्रौ दृष्ट्वोद्योतं कृशानुजम् । सोऽगात्तदनुसारेण समीपे धातुवादिनाम् ॥७८१॥ दिनानि कतिचित्तत्र तस्थौ तत्प्रक्रियापरः । त एव भोजनं तस्य ददिरे दक्षताजुपः ॥७८२ ॥ सुप्तस्य सोऽन्यदा रात्रौ गृहीतस्तस्य तैर्मणिः । तस्य स्थानेऽपरो बद्धः पापाणस्तत्प्रमाणकः ॥ ७८३ ।। ततः स्थानादनिष्पद्यमाने स्वर्णं चचाल सः। संप्राप्तश्चाष्टवीशीर्षनामकं नगर क्रमातू ॥७८४ ॥ रत्नस्य विक्रयार्थ तं यावद्ग्रन्थि विभेद सः । तावदश्मानमद्राक्षीन च तं सर्पज मणिम् ॥७८५ ॥ ततो दध्यावयं मुष्टोऽस्म्यहं तैर्धातुवादकैः । कस्तेषामथवा दोषो दोषोऽयं कर्मणो मम ॥७८६ ॥ महानिशायां सोऽश्वेतचतुर्दश्यामथाऽन्यदा । गत्वा महाश्मशानान्तर्गुरुस्वरमदोवदत् ॥७८७॥ भो भो वेतालभूता ! मे वचनं शृणुताहताः । विक्रीणामि महामांसं स गृह्णातु य इच्छति ॥ ७८८ ॥ १ आलस्यरहितः । MEXSEKESEKKRRECORRRRRRRR. ॥१५५॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy