________________
ततः पुनर्नमस्कारमुच्चकैरुचरन्नयम् । आत्मानमात्मनैवेति बोधयामास दुःखितः ॥७३७॥ हा जीव ! विनिवृत्ति चेदकरिष्यः परिग्रहात् । ततस्ते नेदृशं दुःखमभविष्यत् कथश्चन ॥ ७३८ ॥ अधुनाऽपि गृहीत्वा त्वं श्रामण्यं स्वस्य साक्षिकम् | गृहाणाऽनशनं येन तरस्याशु भवार्णवम् ॥ ७३९ ॥ इत्युदित्वा विधातुं तदुद्यतोऽसौ निवारितः । जिनशेखरसंज्ञेन तेनेदं परिजल्पता ॥ ७४०॥ यदा तदा मुलिकाचैति केनाऽपि वर्मना । रसं पातुं ततस्तस्या वलितायास्त्वमप्यहो ॥ ७४१॥ गाढमादाय तत्पुच्छमितः कूपाद्विनिःसरेः । मरिष्याम्यधुना किंतु तत्कुराधनां मम ॥ ७४२ ॥ युग्मम् ॥ ज्ञात्वाऽन्तसमयं तस्य सुलसः श्रावको वरः । जिनशासनतत्वज्ञो व्यधादाराधनां वराम् ॥ ७४३ ॥ कर्मवीजे विनिर्दग्धे ये न रोहन्ति भूतले । संसारपारगास्त्वं तान् स्मरेदानीमरूंहतः ॥ ७४४॥ अर्हन्ति वन्दनादीनि प्राविहार्याणि येऽथवा । सिद्धिपूःसार्थवाहाँस्तानहतः स्मर सम्प्रति ॥ ७४५ ॥ अष्टप्रकारकर्मारीन प्रन्ति येऽमिततेजसः । स्मर्तव्यास्तेऽरिहन्तारो भगवन्तस्त्वयाऽधुना ॥ ७४६॥ इति तेषां नमस्कारः सर्वदापि सुखावहः । जायते सर्वसत्चानां प्रथमं मङ्गलं तथा ॥ ७४७॥ क्षिपयित्वाऽखिलं कर्म ये गताः परमं पदम् । त्रैलोक्यमस्तकस्यास्तान स्मर सिद्धान्निरजनान् ॥ ७४८ ॥ इह ये परमेष्ठी(ष्ठि)नां द्वितीयस्थानसंस्थिताः । तेषां कृतो नमस्कारो द्वितीयं मङ्गलं भवेत् ॥ ७४९ ॥ १ गोधा । २ तीर्थकरान् ।