SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ महाप्रसादं इत्युक्त्वा सोऽस्थात्तस्याऽन्तिके ततः। एकस्मिन्मन्दिरे तेन मोजितो बुभुजे च सः।। ७११॥ गतस्तपस्विनस्तस्यावमथे सुलसस्ततः । पप्रच्छैच कथं त्वं मां करिष्यसि समृद्धकम् ? ॥७१२॥ सोऽयाचादीद्र सकपकल्पोऽस्ति मम सन्निधौ । तस्यैकविन्दुनाऽनेका विध्यन्ते लोहकोटयः ॥७१३॥ तंतो विधेहि सामग्री महिपीपुच्छमेककम् । महत्प्रमाणमानीय मम तावत्समर्पय ॥७१४ ॥ स्वयं विपन्नसेरिम्याः पुच्छं तस्यार्पयत्सकः । पग्मासाँस्तैलमध्ये तत्प्रक्षिप्तं तेन योगिना ॥७१५ ॥ कल्पस्य पुस्तिका तेन धृतै कस्मिन् करे ततः। द्वितीये च करे पुच्छं वस्त्रायुगलं तथा ॥७१६॥ द्वे तुम्बे मञ्चिकां च चले: पटलिका तथा। अग्निस्थिकां च सुलसमस्तकेसौ न्यवेशयत् ॥ ७१७॥ तौ गिरेविवरं प्राप्तौ तस्य द्वारनिवेशिताम् । अभ्यर्च्य यक्षप्रतिमां तत्र प्राविशतां ततः ॥ ७१८॥ उत्तस्थौ तत्र यः कश्चिद्भुतवेतालराक्षसः । बलि चिक्षेप सुलसः संमुखं तस्य निर्भयः ॥ ७१९ ॥ सैरिभीपुच्छदीपेन दृष्टमार्गावुभाविमौ । योजनद्वयमुल्लंथ्य संप्राप्तौ रसकूपकम् ॥ ७२०॥ चतुर्हस्तसुविस्तीर्ण दीर्घ च चतुरः करान् । चतुरस्रममुं प्रेक्षांचक्राते तो च हर्षितौ ॥ ७२१॥ पश्चिकां प्रगुणीकृत्य रज्जूं तत्र निवध्य च । योग्यूचे सुलसान त्वमुपविश्यावटे विश ॥ ७२२॥ गृहीततुम्बकः सोऽथोपविष्टोत्र शनैः शनेः । प्रक्षिप्तो योगिना कूपतले गाद्रससन्निधौ ॥ ७२३ ॥ १ महिष्याः । २ रज्जुद्वयम् । ३ पूनायाः । ४ एकवचनं चिन्त्यम् । ५ रज्जुद्वयम् ।
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy