SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ शान्तिना थचरित्रम् ॥१५ ॥ प्रस्ताव स्वस्ति नत्वा जिनाधीशान सुलसः प्रेयसीं निजाम् । स्वक्षेमवार्तयाऽऽह्वाध संदिदेशेति साञ्जसम् ।। ६४३ ॥ प्रिये वेश्यागृहादद्य निर्गतोऽहं ततः कथाम् । श्रुत्वा मरणजां पित्रोहिया नागां त्वदन्तिके ॥ ६४४॥ गत्वा देशान्तरे लक्ष्मीमुपायं मानसेप्सिताम् । इहैष्यामि दिनैः स्तोकैः खेदः कार्यस्त्वयान हि ॥ ६४५॥ लिखित्वा क्षुरिकाग्रेणेत्यक्षराली ततश्च सा। संपूरिताङ्गारमष्या तेन संवर्तितं च तत् ॥६४६ ॥ तदा च तत्प्रियादासी दैवात्तत्र समागता । तस्याः समर्प्य तत्पत्रं परदेशे ययावसौ ॥६४७॥ एकस्मिन्नगरे गत्वा जीर्णोद्याने स्थितोऽथ सः। प्ररोहं ब्रह्मवृक्षस्य निरीक्ष्यैवं व्याचिन्तयत् ॥ ६४८ ॥ न स्यादक्षीरवृक्षस्य प्ररोहो विभवं विना । बह्वल्पं वा भवेद् द्रव्यं ध्रुवं बिल्वपलाशयोः ॥६४९॥ प्ररोहे वीक्षिते सूक्ष्म स्तोकद्रव्यं विवेद सः। सुवर्णमिति चाऽज्ञासीत् क्षीरे तद्वर्णके सति ॥६५०॥ ॐ नमो धरणेन्द्राय नमः श्रीधनदाय च । एवमाधुच्चरन्मंत्रं तत्स्थानं खनति स्म सः ॥६५१॥ लब्धं सहस्रदीनारमानं तच्च निधानकम् । संगोप्य परिधानान्तः प्रविवेश पुरेऽथ सः ॥६५२॥ एकस्य वणिजो हट्टे निविष्टो व्याकुलस्य च । प्रभूतग्राहकैस्तस्य साहाय्यं सुलसो व्यधात् ॥ ६५३ ॥ विलोक्य तस्य दक्षत्वं हृष्टः श्रेष्ठी व्यचिन्तयत् । अहो सुपुरुषस्याऽस्य विज्ञानं पुण्यसंयुतम् ॥ ६५४ ॥ जातः प्रभूतलामोऽद्य साहाय्यादस्य यन्मम । तदयं न हि सामान्य इति ध्यात्वाऽब्रवीच्च सः॥ ६५५ ॥ १ पलाशवृक्षस्य । ॥१५०॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy