SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ राजाऽपि दर्शनं तस्य दष्ट्वा तमुपलक्ष्य च । ऊचे भोः पुष्प ! पक्ष्येप मत्पुरोहितसन्निभः ॥६०३ ॥ स एवाऽयमिति प्रोक्त तेन भूयोऽववीन्नपः। कथमीहक्कृत इति व्याख्यो सोऽय तत्कथाम् ॥ ६०४॥ ततश्चाऽजक्षकनरा इत्यादिष्टा महीभुजा । अन्यायकारिणममुं रे व्यापादयताऽधमम् ॥६०५॥ नानाविडंबनाः कृत्वा भ्रमयित्वा पुरेऽखिले । स तैापादितो घोरां जगाम नरकावनिम् ॥ ६०६॥ तत्रापि प्रज्वलल्लोहपुत्रिकालिङ्गानादिकम् । दुःखं विपद्य संसारमपारं स भ्रमिष्यति ॥ ६०७॥ ॥ इति चतुर्थव्रते करालपिङ्गकया ॥ परिग्रहवतं स्थूलं सचित्ताऽचित्तमिश्रकैः । भेदैस्त्रिधा तथा तच नवभेदं भवत्यहो। ॥ ६०८।। धने धान्ये क्षेत्रवास्तुरूप्यकुप्येपु हेमनि । द्विपदे चतुष्पदे च कुर्यान्मानं परिग्रहे ॥६०९॥ एतस्मादनिवृत्तानां दुःखानीह शरीरिणाम् । सुलसश्रावकस्येव संजायन्ते निरन्तरम् ॥६१०॥ चक्रायुधोऽवदतु कोऽयं भगवन् ! सुलसाह्वयः। श्रीशान्तिनाथः प्रोचे च तत्कथा श्रूयतामिति ॥ ११ ॥ इहाऽमरपुरं नाम नगरं भरतावनौ । विद्यते तत्र भूपालोऽमरसेनोऽभवदली ॥ ६१२॥ श्रेष्ठी वृपनदत्ताख्यस्तत्रावात्सीद्विवेकवान् । श्राद्धोऽविचलसम्यक्त्वो जिनसंयतपूजकः ॥ ६१३॥ तस्याऽऽमीजिनदेवीति गहिनी गुणसंयुता । सौन्दर्यपारकलशः सुलसो नाम तत्सुतः ॥ ६१४ ॥ संप्राप्तो यौननं सोऽथ पितम्यां परिणायितः । तनयां जिनदासस्य सुभद्रां नाम कन्यकाम् ।। ६१५ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy