SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ राजा प्रोवाच या काचिदिच्छति वामिहाञ्चला। सेवनीया त्वया सा हि सर्वदानाऽपरा पुनः॥ ५७७॥ अनिच्छन्ती च चेद्रामा रंस्यसे वार्थयिष्यसि । करिष्यामि ततो दण्डं पारदारिकवत् तव ॥ ५७८॥ स्वैरं संचरता तेन पुरे तस्मिन् पुरोधसा । वल्लभा पुष्पदेवस्य पद्मश्रीवर्वीक्षिताऽन्यदा ॥५७९॥ ततो विद्यल्लतानाम्नीं तस्या दासी जजल्प सः। भद्रे । भण तथेमां त्वं यथा वाञ्छति मामसौ॥ ५८०॥ सतीत्वं पालयन्ती सा नेच्छत्येनं कथञ्चन । स्वयं करालपिङ्गेन रन्तुमभ्यर्थिताऽन्यदा ॥५८१ ॥ साध्वादीन्मेदृशं हि ज्ञास्यत्येतत्सखा तव । सोचवीच तथा कार्य यथाऽन्यत्र प्रयात्यसौ ॥ ५८२ ॥ कथित निजकान्तस्य तद्वाक्यमखिलं तया । प्रतीक्षमाणः कालं च सोऽस्थाद् धृत्वा मनस्यदः॥ ५८३ ॥ पुरोहितेन तेनाऽथ विद्यासामर्थ्यतोऽन्यदा । कृता दुर्विपहा शीर्षे वेदना मेदिनीपतेः ॥५८४॥ तमाकार्य ततो राज्ञा तत्स्वरूपं निवेदितम् । अपनिन्ये सका तेन शिरोऽर्तिमन्त्रवादिना ॥५८५॥ पुनस्तुष्टोऽस्य भूपालोऽवदद्याचस्त्र किञ्चन । तेनापि जल्पितं देव ! कुर्विदं त्वं वचो मम ॥ ५८६ ॥ किंजल्पिसंज्ञके द्वीपे सन्ति किंजल्पिकाः खगाः। सुस्वरा दृश्यमाना भवन्ति सुखदा हि ते॥ ५८७ ॥ तेषामानयनार्थ तत् पुष्पः संप्रेष्यतां वणिक । तदङ्गीकृत्य भूपोऽपि तदर्थ विससर्ज तम् ॥५८८॥ सौर्वस्तिककृतं चैतत्सोऽपि विज्ञाय बुद्धिमान् । भर्तुः प्रमाणमादेश इत्युक्त्वा च ययौ गृहम् ॥ ५८९ ॥ १ सीवस्तिकः पुरोहितः।
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy