________________
शान्तिनाथचरित्रम् ॥१४७॥
प्रस्ताव
ततस्तुष्टो विशेपेण स तां जिनमती सतीम् । पर्यणैषीत्सुमुहूर्ते महोत्सवपुरःसरम् ॥ ५६४ ॥ भुक्त्वा भोगांस्ततः कालं कियन्तमनया सह । प्रवबाज विरक्तात्मा सुस्थिताचार्यसंनिधौ ॥५६५ ॥ पालयित्वा चिरं दीक्षां खड्गधारासमामिमौ । विपद्याऽन्ते समाधानपरौ त्रिदिवमीयतुः ॥५६६ ॥
॥परद्रव्यापहारविरतौ जिनदत्तकथा ॥ औदारिकं चैक्रियक द्विविधं मैथुनव्रतम् । तिर्यङ्मनुष्यभेदेनौदारिकं तु द्विधा भवेत् ॥५६७॥ विज्ञेयं वैक्रिय चैकविधं देवाङ्गनागतम् । एतद्बत समस्तानां व्रतानामपि दुःसहम
॥५६८॥ परदारप्रसक्तानां दुःखानि स्युरनेकधा । यथा करालपिङ्गोऽभूत्पुरोधा दुःखभाजनम् ॥५६९ ॥ कोऽसौ करालपिङ्गाख्य इति चक्रायुधेन तु । पृष्टो जगाद भगवानुर्वीश ! श्रूयतामिति ॥५७० ॥
अस्तीह भरतक्षेत्रे पुरं नलपुराऽभिधम् । बभूव नलपुत्राख्यस्तत्र राजा महाभुजः ॥५७१ ॥ करालपिङ्गो नाम्नाऽभूत्तस्याऽभीष्टः पुरोहितः । शान्तिकर्मणि निष्णातो रूपयौवनवित्तवान् ॥ ५७२॥ महेम्यतनयस्तत्र पुष्पदेवोऽभिधानतः । मित्रं पुरोहितस्याऽस्य वसति स्म वणिग्वरः ॥५७३ ॥ तस्याऽऽसीत् प्रवरा भार्या पद्मश्रीः प्राणवल्लभा । पतिव्रता(त)प्रभृतिभिः स्त्रीगुणैः समलंकृता ।। ५७४ ॥ पुरोधसाऽन्यदा तेन केनचिद्वितकर्मणा । तोषितः पृथिवीपालस्ततः सोऽस्मै ददौ वरम् ॥५७५ ॥ विषयासक्तचित्तेन तेनेदं याचितं ततः। पुरेऽस्मिन् स्वेच्छया रामा रमणीया मया प्रभो! ॥ ५७६ ॥
॥१४७॥