SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ धर्मार्थी सदयो देवगुरुभक्तिपरायणः । निरागो जिनदत्तो ही प्राप्तवान् कीदृशी दशाम् ? ॥ ५५० ॥ दृष्ट्वा तां जिनदत्तोऽपि नियाजस्नेहवत्सलाम् । सद्योऽनुरागवशगश्चिन्तयामास मानसे ॥५५१ ॥ अहो! अकृत्रिमा प्रीतिः काऽप्यस्या मयि वर्तते । दृष्ट्वा मद्व्यसनं दुःखभागिनी याऽभवत् क्षणात्।।५५२॥ एतस्माद् व्यसनान्मोक्षोभविष्यति ममाञ्य चेत् । कियत्कालं ततो भोगान् भोक्ष्येऽहमनया सह ॥ ५५३ ॥ अन्यथाऽनशन मेऽस्तु सागारमिति चिन्तयन् । वध्यस्थाने स आरक्षनरैनीतो दुराशयः ॥५५४॥ प्रियमित्रस्य पुत्री सा कन्यका कृतनिश्चया । कायोत्सर्ग व्यधाद् गेहचैत्ये गत्वा मनस्विनी ॥ ५५५॥ चेतसाऽचिन्तगचैत्र मातः! शासनदेवते! | जिनस्य कुरु मानिध्यं यद्यहं जनशासनी तस्यास्तस्य च शीलेन तुष्टा शासनदेवता । बभज शूलिकां सद्यो वारांस्त्रीस्तृणमात्रवत् ॥५५७ ॥ स चोद्वद्धस्ततो वृक्षे रज्जुग्छिन्ना झटित्यपि । कृताः खड्गप्रहाराच जज्ञिरे कुसुमस्रजः ॥५५८ ॥ आरक्षकनरास्तस्य दृष्ट्वाऽतिशयमीदृशम् । विस्मिताः कथयन्ति स्म तमागत्य महीभुजः ॥५५९ ॥ भयविस्मयसंपूर्णः स गत्वा तत्र सत्वरम् । जिनदत्तं गजारूढमानिनाय निजौकसि ॥५६०॥ पृष्टोऽथ सर्ववृत्तान्तं जिनस्तस्य न्यवेदयत् । रक्षति स्माऽरक्षकं च मृत्योर्जीवदयापरः अनुज्ञातस्ततो राज्ञा निजगेहमगादसौ । पित्रादिस्वजनस्तस्य सर्वोऽपि मुमुदेतराम् ॥५६२॥ आगत्य प्रियमित्रेण जिनदत्तस्य धीमतः । वार्ताऽचख्ये स्वनन्दिन्या देवताराधनादिका ॥५६३ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy