SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ शान्तिनाधचरित्रम् ॥१४६ ॥ षष्ठः प्रस्ताव अन्यदा कन्यका साथ निर्गच्छन्ती गृहाद् निजात् । दृष्टा पुरारक्षकेण वसुदत्तेन भोगिना || ५३६ ॥ ततो जाताऽनुरागेण तेन गत्वाऽथ तत्पितुः । पार्वे सायाचिता दत्ता जिनस्येति च सोऽब्रवीत् ।। ५३७ ॥ ततो रुष्टः स दुष्टात्मा मारणात्मिकया धिया। संजातो जिनदत्तस्य च्छिद्रान्वेपी दिवानिशम् ॥ ५३८ ॥ अश्ववाहिकया राज्ञो गतस्योद्यानमन्यदा | पपात कुण्डलं कर्णाचलत्यश्वेऽतिरंहसा ॥५३९ ॥ तच्चागतेन विज्ञातं तेन राजकुले ततः । वसुदत्तः समादिष्टस्तदन्वेषणहेतवे ॥५४०॥ तदर्थ सोऽचलद्यावत्तावत्तस्य पुरःसरः । जिनदत्तो बहिर्गन्तुं प्रवृत्तोऽर्थेन केनचित् ॥५४१॥ दृष्ट्वा तत्कुण्डलं मार्गे सोऽथ दूरमपासरत् । लोष्टुवत् परद्रव्याणि यतः पश्यन्ति साधवः ॥५४२ ॥ वसुदत्तोऽपि तत्रागात् किमेतदिति चिन्तयन् । दृष्ट्वाऽऽदाय च तच्छीघ्रमार्पयचावनीपतेः ॥ ५४३ ॥ राजा प्रोवाच भोभद्र ! कुतो लब्धमिदं त्वया ?। जिनदत्तान्मयाप्राप्तमित्यूचे स च दुष्टधीः ॥५४४ ॥ जिनदत्तोऽपि किं नाम परद्रव्यं हरत्यहो।। इति पृष्टे नरेन्द्रेण वसुदत्तोऽभ्यधात् पुनः ॥५४५॥ समानो जिनदत्तेन तस्करः कोऽपि नाऽपरः । यः सदा पश्यतोऽप्यर्थ परस्माद् हरति प्रभो! ॥ ५४६॥ वध्य आज्ञापितो राज्ञा ततोऽयं क्रुद्धचेतसा । वसुदत्तोऽपि बद्ध्वा तं रासभारोपितं व्यधात् ॥ ५४७ ॥ रक्तचन्दनलिप्ताङ्गो रसद्विरसडिण्डिमः । नीयमानः पुरीमध्ये कृतहाहारवो जनैः ॥५४८॥ गृहानिर्गतया सोऽथ जिनमत्यावलोकितः । सा चैवं चिन्तयामास रुदती निभृतस्वरम् ॥ ५४९ ॥ (युग्मम् ) ॥१४६॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy