SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ 33:33 पर शान्तिनाथचरित्रम् ॥१४४॥ सोऽब्रवीद् हर्तकामः स्वमभविष्यमहं यदि । एकान्तलब्धं तत्ते नाकथयिष्य पुराऽप्यदः ॥ ४८३ ॥ त्वं तु स्ववञ्चकत्वेन मामप्येवं विमन्यसे । पित्तातिप्लावितो नीरमपि ज्वलितमीक्षते ॥४८४॥ एवं तौ कलहायन्तौ समीपे नृपतेर्गतौ । इति विज्ञपयामास तमादौ सोऽथ दुर्मतिः ॥ ४८५॥ देवावाभ्यां निधिः क्वापिलब्धस्तेनो निवेदिता लुब्धाभ्याममुकस्थाने निक्षिप्तश्च मिया तव ॥४८६ ॥ 'अनेन वञ्चयित्वा मां जगृहे स सुबुद्धिना। इति ज्ञात्वा यथायुक्तं विधेहि त्वं महीपते ।। ४८७॥ राजोचे वर्ततेवाऽर्थे साक्षिको ननु कस्तव ? । विचिन्त्य सोवदद् दुष्टबुद्धिः पुनरिदं वचः ॥ ४८८॥ यस्याऽधस्ताद्विनिक्षिप्तं तद् द्रव्यमवनीपतेः । स एव हि महावृक्षः साक्षिकोऽस्त्यत्र निश्चितम्॥ ४८९ ॥ इदं वित्तमनेनाऽऽत्तमिति वाक्यमसौ यदि । तसर्वक्ति ततो राजन् ! ज्ञेयः सूनृतवागहम् ॥ ४९०॥ राजा प्रोवाच यद्येवं करिष्यसि कथञ्चन । सत्यवाक्यो भवानेको भविष्यति ततो जने ॥४९१ ।। इदं हि ह्यो मया कार्यमित्युक्ते दुष्टवुद्धिना- विसृष्टौ तौ नरेन्द्रेण दत्तप्रतिभुवौ गृहम् ॥४९२॥ अहो ! सुदुर्घटं कार्य कथमेष करिष्यति । धर्मस्यैव जयो वेति ध्यायन वेश्म ययौ सुधीः ॥४९३ ॥ इतरोऽपि गृहं प्राप्तौ भद्राख्यं पितरं निजम् । प्रोवाच तात ! दीनारा मम हस्तंगतो इमे ॥ ४९४॥ क्षेप्स्यामि त्वामहं नीत्वा-निशायां वटकोटरे । आत्तं सुबुद्धिना रिकथमिति वाच्यं त्वया प्रगे ॥ ४९५ ॥ । १ दत्तः प्रतिभूः साक्षी याभ्यां तौ । । ॥१४४॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy