SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ शान्तिनापचरित्रम् ॥ १४३॥ प्रस्तावः तपः प्रकुर्वतस्तस्य लब्धयोऽनेकशोऽभवन् । गीतार्थो विहरन्नेकः स नगर्यामिहाऽययौ ॥४५६॥ तस्थौ पितृवनोपान्ते कायोत्सर्गेण च स्थिर:-। इतश्च तनयो मेऽस्ति प्रभो! नाम्नातिमुक्तकः ॥ ४५७॥ औपसर्गिकरोगातों गतः पितृवनेऽथ सः। मुनि ननाम नीरोगस्तस्य शक्त्या बभूव च ॥ ४५८॥ मम तेन स्ववृत्तान्तो गृहमेत्य निवेदितः । ततोऽहं सकुटुम्बोऽपि तत्राणां रोगपीडितः ॥४५९ ॥ मुक्तश्च व्याधिना तेन ततोऽहं श्रावकोऽभवम् । यावज्जीवं च हिंसाया विरतोऽस्मि धरापते ॥ ४६॥ तेनैव साधुना देव ! प्रतिबोधकथा निजा । आख्याता मम पृष्ठेन ततोऽहमपि वेमि ताम् ॥ ४६१ ॥ ततश्च पूजितो हृष्टचेतसा स महीभुजा । चाण्डालानां समस्तानामधिपश्च विनिर्मितः ॥४६२॥ अन्येन श्वपचेनाऽयं मम्मणो विनिपातितः । यमपाशश्च मृत्वाऽन्ते बभूव त्रिदशोत्तमः ॥४६३ ।। ॥प्राणातिपातविरतिविषये यमपाशमातङ्गकथानकम् ॥ द्वितीयं च व्रतं नाम कन्यालीकादि पञ्चधा । अलीकभाषणे दोषो भद्रस्येव प्रजायते ॥ ४६४ ॥ क्षितिप्रतिष्ठितपुरे वणिजौ धनवर्जितौ । दुष्टबुद्धिसुबुद्धयाख्यावभूतां विदितौ जने ॥४६५ ।। प्रपन्नसौहृदावेतौ किञ्चिदादाय पण्यकम् । देशान्तरप्रचलितावर्थोपार्जनहेतवे ॥४६६ ।। प्राप्तौ च क्रमयोगेण पुरे काऽपि पुरातने । दिनानि कतिचित्तत्र तस्थतुर्लाभकाविणौ ॥ ४६७ ॥ देहचिन्ताकृते कापि खण्डौकसि सुबुद्धिना । उपविष्टेन संप्राप्त निधानं किश्चिदन्यदा ॥४६८॥ ॥ १४३॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy