SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रम् ॥१३९॥ प्रस्ताव अनेनैव विरागेण त्यक्ताऽशेषपरिग्रहाः । निर्ममत्वा महासत्त्चास्तपः कुर्वन्ति साधवः ॥३४९॥ अथो कनकवत्यूचे नाथ ! त्वं सति पौरुषे । विपादं किं करोष्यद्यानाप्तमर्त्यफलोऽसि यत् ॥३५०॥ दीनोद्धारो न विदधे नैकच्छत्रा कृता मही । विषया नोपभुक्ताश्च प्रकामं खिद्यसेङ्ग! किम् ? ॥ ३५१ ॥ ततस्तस्य गिरा रात्री जाग्रता तेन खेचरः। स आगतो निर्जितश्च जीवन मुक्तो महात्मना ॥ ३५२ ।। अनुज्ञाप्य कुलपति स गतः क्वापि पत्तने । सरि तद्वहिरदाक्षीद्गुणरत्नमहोदधिम् ॥३५३ ॥ तं नत्वा सप्रियोऽप्येष मोहनिद्रानिवारिणीम् । शुश्राव देशनां पुण्यपादपारामसारणीम् ॥३५४ ॥ सरि नत्वाऽन्यतो गत्वा स जगाद विरागवान् । प्रियेऽस्य सद्गुरोः पार्श्वे प्रव्रज्या गृह्यतेऽधुना ॥ ३५५ ।। विषयेष्वविरक्ता सा जगादाद्यापि नौ नवम् । यौवनं वर्तते कान्त ! तद् व्रतं क्रियते कथम् ॥ ३५६ ॥ सोऽवदवृद्धभावेऽपि केषाश्चिद्विषयैषिता । दृश्यते यौवनस्थानामप्यन्येषां विरागिता ॥३५७ ॥ पृष्ठा किश्चिदतिशयज्ञानिनं स्वावसानताम् । विज्ञाय च यथायुक्त कार्यमित्युक्तवत्यसौ ॥३५८॥ गुणधर्मोऽथ तद्वाक्यमङ्गीकृत्याविशत् पुरे । किञ्चिद् भोजनमानेतुं तस्थौ तत्रैव सा पुनः ॥ ३५९ ।। तदा च गुणचन्द्राख्यो राजपुत्रः समागतः । वनस्थां यौवनस्थां तां दृष्ट्वा जज्ञेऽनुरागवान् ॥३६० ॥ इत्युवाच च नम्राऽङ्गि! काऽसि त्वं केन हेतुना। तिष्ठस्येकाकिनी बाले ! किं ते भर्ता न विद्यते ? ॥ ३६१ ॥ विज्ञाय साऽनुरागं तं विरक्तं च निजं पतिम् । साऽप्याख्याय स्ववृत्तान्तं जाता तदनुरागिणी ॥ ३६२॥ सरि नत्वाका सा जगादायापि नो नाम दृश्यते यौवनस्थानामप्यामत्युक्तवत्यसौ. १३९॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy