________________
शान्तिनाथचरित्रम् ॥ १३८॥
प्रस्ताव:
विश्वस्ते व्याकुले दीने बालवृद्धाबलाजने । प्रहरन्ति यके पापा ध्रुवं ते यान्ति दुर्गतिम् ॥३२१ ॥ स्त्रीहत्यापातकं कर्तुमुद्यतस्य तवाऽद्य रे।। अहमेव भविष्यामि प्रायश्चित्तविधौ गुरुः ॥३२२॥ स्मित्वा विद्याधरोज्थाऽऽख्यत् तत्र गत्वाऽपि योमया। हन्तव्यः स्वयमेवाऽसौ मरणायाऽऽययावहो ॥३२३॥ ततो युवा च्छलं लब्ध्वा तस्य विद्याधरेशितुः । गुणधर्मकुमारेण शिरश्छिन्नं महौजसा ॥३२४ ॥ भयभीतं च तत्सैन्यं तेनैवाऽश्वासितं गिरा । अत्रान्तरे च बालास्तास्तिस्रोऽप्यूचुरिदं वचः॥ ३२५॥ वयं विमोचिताः स्वामिन्नेतस्मात् खेचरात् त्वया । जन्तवः सुप्रसन्नेन गुरुणा पातकादिव ॥ ३२६॥ भवत्यस्तनयाः कस्य कुमारस्येति पृच्छतः । एका प्रोवाच तन्मध्याद्राज्ञः शङ्खपुरेशितः ॥३२७ ॥ सुता दुर्लभराजस्य नाम्ना कमलवत्यहम् । भयेनैतस्य मयका विवाहो नेप्सितः खलु ॥ ३२८ ॥ कुमारोऽचोचत भयं स्नेह कोपज नु वा । साऽवदत् कोपज तद्धि स्नेहजं तु कुतो यतः ॥ ३२९॥ अहं हि कुट्टिमतलादनेनाऽपहृता पुरा । ततः स्वरसनाच्छेदं कुर्वतैवं प्रजल्पिता ॥३३० ॥ रमणः प्रतिपत्तव्यस्त्वयाऽवश्यं मदुक्तया । आगन्तव्यं समीपे मे यामिन्यां सर्वदा तथा ॥३३१॥ भविष्यति विमानं ते सुशीलाया ममाऽऽज्ञया । यद्येवं कुरुषे तत्वां विमुश्चामि न हन्म्यहम् ॥ ३३२ ॥ कृत्वा शपथनिर्बन्ध प्रतिपन्नं मयाऽपि तत् । अनेन शिक्षिता चाऽस्मि साधो नृत्यादिका कलाः॥ ३३३ ॥ एवमन्या वशेऽनेन कृतास्तिस्रो नृपात्मजाः। त्वया विनिम्नता धेनं सर्वासां विहितं सुखम् ॥३३४॥
Com १३८॥