SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Rec कुमारोऽपि तथैवाऽस्थाच्छन्नः सर्व विलोकयन् । एकेन खेचरेणैवं चेटिका सा प्रजल्पिता ॥ ३०७ ॥ किमद्य महती वेला लग्ना ते स्वामिनी व वा । साऽपि कृत्वोत्तरं पूर्वमूचेहं प्रेपिता तया ॥ ३०८॥ तच्छ्रुत्वा खेचरेन्द्रोऽसौ कोपेन स्फुरिताऽधरः। प्रोवाच कुरुत स्नात्रं भो यूयं वृषभप्रभोः ॥ ३०९॥ अहं त्वस्याश्चिकित्सामि पापिष्ठायाः शरीरकम् । इत्युक्त्वा दासचेटीं तां मूर्धजेष्वग्रहीदसौ ॥३१०॥ कुमारोऽपि परिकर ववन्ध निविडं तदा । खड्गं च प्रगुणीचके भग्नश्च प्रेक्षणोत्सवः ॥३११॥ ऊचे विद्याधरश्चेटीं तवाऽऽदौ रुधिरेण मे । उपशाम्यतु कोपाग्निः पश्चाद् युक्तं करिष्यते ॥३१२॥ तचं स्मराऽभीष्टदेवं पञ्चत्वसमयेऽधुना । प्रतिपद्यस्व शरणं तं च यः प्रतिभाति ते ॥३१३॥ सावादीदेष सर्वज्ञो देवासुरनरार्चितः। अभीष्टदेवो भगवान् स्मृतः श्रीवृषभो मया ॥३१४॥ शरणं च ममाष्टव्यामस्यां मरणमेव भोः।। विद्यते कोऽपि न त्राता तथाऽप्येवं भणाम्यहो! ॥३१५॥ शूरो धीरो महोदारो वैरिद्विपघटाहरिः । ममाऽस्तु शरणं नित्यमार्यपुत्रो गुणैकभूः ॥३१६॥ जजल्प खेचरः कोऽयमार्यपुत्रो वदाऽधमे! । दध्यौ कुमारोऽप्यमुना साधु पृष्टं ममापि यत् ॥३१७॥ सन्देहो वर्तते चित्ते ततश्चेटी जगाद सा । वृतः समक्ष भूपानां स्वामिन्या यः स्वयंवरे ॥३१८॥ (युग्मम् ) येन दृष्टः क्षणार्धेन त्वं पाप! न भवस्यरे!। गुणधर्मकुमारोऽसौ शरणं विहितो मया ॥३१९॥ तरवारिमथोद्यम्य स तां हन्तु समुद्यतः। विकोशीकृतखड़गेन कुमारेणेति जल्पितः ॥३२०॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy