________________
शान्तिनापचरित्रम् ॥१३७ ॥
षष्ठः प्रस्ताव
ततो दीर्घ विनिःश्वस्य तयैवं परिभाषितम् । सख्येतद्विषमं कार्य मन्दभाग्या करोमि किम् ? ॥ २९४ ॥ यतः प्रवर्त्तमानाऽहं कुमारीत्वे पितुर्गुहे । तेन विद्याधरेन्द्रेण शपथं कारिता ह्यमुम् ॥ २९५॥ मयाऽनुज्ञातया कान्तः सेवनीयस्त्वया खलु । आगन्तव्यं तथाऽवश्यं निश्युपान्ते सदा मम ॥ २९६ ॥ पित्रोर्मयोपरोधेनाऽनुरागेण च राजसः । उढोऽभिमतश्चाऽभूत् तस्याऽहमपि सम्मता ॥२९७ ॥ कथञ्चित्तत्र गच्छन्ती ज्ञाताऽहममुना सखि ! । सोऽपि विद्याधरोऽनेन साक्षादेव विलोकितः ॥ २९८ ॥ ततो मे वल्लभस्तेन खेचरेण हनिष्यते । हन्ताऽथवा खेचरो मामित्याशङ्कां करोम्यहम् ॥२९९ ॥ अन्यचनवीनयौवनारम्भो बह्वपायः प्रवर्तते । उत्तमे च मम ख्याते पितृश्वशुरयोः कुले ॥३० ॥ अत्यन्तविषमो लोको यद्वा तद्वा प्रजल्पति । कार्याणां गहनत्वेनाऽकुलीभूताऽस्मि सर्वथा ॥ ३०१॥ सोचे स्वामिनि ! यद्येवं तिष्ठ त्वं तत्र याम्यहम् । सखी मेऽपटुदेहास्तीत्याख्यास्यामि तदग्रतः ॥ ३०२॥ अथो कनकवत्याख्यदेवं कुरु शुभाशये ! । इत्युक्त्वाऽर्पयति स्माऽस्या विमानं विरचय्य सा ॥३०३ ॥ तस्मिन्नारुह्य सा दासी ययौ तत्र तया सह । गुणधर्मकुमारोऽपि चिन्तयन्निति मानसे ॥३०४॥ अद्य तस्याऽपनेष्यामि ध्रुवं विद्याधरेशताम् । गुर्वी च प्रेक्षणश्रद्धां जीवलोकनिवासिनाम् ॥३०५॥ प्रारब्ध खेचरैः स्नात्रमथ श्रीमजिनेशितः । चेटी विमानादुत्तीर्य प्राविशत् सा जिनालये ॥ ३०६॥
॥१३७॥