________________
e
mone
विमानमध्यानिःसृत्य कुमारस्य प्रियाऽथ सा । कृत्वा प्रणाममेतस्य सभीपे समुपाविशत् ॥२५४॥ अन्याश्च योषितस्तिस्रस्त्रागत्य प्रणम्य तम् । निषेदुस्तत्र चाऽन्येऽपि खेचराः समुपाययुः ॥२५५ ॥ तस्याऽभूद् बनखण्डस्यैशान्यां दिशि मनोहरम् । विशालं निर्मलं श्रीमयुगादिजिनमन्दिरम् ॥ २५६॥ सुवर्णमणिसोपानं भूरिस्तम्भसमुच्छ्रितम् । विमानमिव देवानां तद्विभाति स्म भूस्थितम् ॥२५७ ॥ क्षणान्तरेण सर्वाणि जग्मुस्तानि जिनालये । प्रारब्धः खेचरैस्तत्र जैनस्नात्रमहोत्सव ऊवैऽथ खेचरेन्द्रेण कस्या नृत्येऽद्य वारकः । तत्समाकर्ण्य कनकवत्युत्तस्थौ क्षणेन सा ॥२५९ ॥ संयम्य परिधानं स्वं रङ्गभूमौ प्रविश्य च । हावभावकृतौ दक्षा चक्रे नृत्यविधि वरम् ॥२६०॥ अन्यासां तिसृणां मध्याद्वीणावादनमेकका | वेणुतालावादनं च चक्रर्दक्षाः क्रमेण ताः ॥२६१॥ गुणधर्मकुमारोऽप्यदृश्यरूपः सविस्मयः । तत्रैकत्र स्थितः सर्वं तत्स्वरूपं व्यलोकयत् ॥२६२ ॥ तदा च कनकवत्या नृत्यन्त्या न्यपतद्भुवि । सुवर्णकिङ्किणीमाला त्रुटित्वा कटिसूत्रकम् ॥२६३॥ शीघ्रमेव कुमारेण प्रच्छन्नं जगृहे सका । आलोकिता न च प्राप्ता रङ्गस्यान्ते तया ततः ॥२६४॥ स्वं स्वं स्थानं ययुः सर्वेऽप्यगात् कनकवत्यपि । निजावासं सचेटिका कुमारोऽपि तथैव सः॥ २६५॥ सा तस्थौ स्वगृहे तच्च विमानं संहृतं तया । रात्रिशेषे कुमारोऽपि सुष्वापाऽगत्य मन्दिरे ॥२६६ ॥ मतिसागरसंज्ञस्य सख्युः पुत्रस्य मन्त्रिणः। किङ्किणीमालिका साऽथ कुमारेणार्पिता प्रगे ॥ २६७॥