________________
शान्तिना- 60 धचरित्रम् ॥१३५॥
षष्ठः प्रस्ताव
कुमारेण ततोऽभाणि यद्येवं तत्तथा कुरु । यथा मे वशमायाति भार्या कनकवत्यसौ ॥२४ ॥ ज्ञात्वा ज्ञानेन सोवादीद् भाविनी सा वशे तव । नूनं कामितरूपेण तच्च भावि तवाजघ। ॥ २४१॥ एवं दत्त्वा वरं तस्याऽदृश्योऽभूत क्षेत्रपालकः । सिद्धमन्त्रः स योगीन्द्रः कुमारं प्रशशंस च ॥ २४२॥ स्मर्तव्योऽहं त्वया भूयः परोपकृतिकर्मठ ।। इत्युदित्वा निजं स्थान शिष्यैः सह ययावसौ ॥ २४३॥ प्रक्षाल्याऽङ्ग कुमारोऽपि प्रविवेश निजं गृहम् । सुष्वाप तत्र शय्यायां वीरवेष विमुच्य तम् ॥ २४४ ॥ द्वितीयदिनयामिन्या आद्ययामे गते सति । अदृश्यरूपवान सोऽथ प्रियायाः सदनं ययौ ॥२४५॥ ददर्श तत्र कनकवती चेटीद्वयान्विताम् । एवमूचे च सा दास्यौ कियन्माना निशा हले।।। २४६॥ ताभ्यामूचे न चाऽद्यापि पूर्यते प्रहरद्वयी । वर्तते तत्र गमनवेला स्वामिनि ! संप्रति ॥२४७॥ ततः स्नातविलिप्ताङ्गी वस्त्रालङ्करणाञ्चिता । देवावाससमानं सा विमानं निर्ममे क्षणात् ॥२४८॥ तत्राधिरुह्य दासीभ्यां सह यावच्चचाल सा । तद् दृष्ट्वा गुणधर्मोऽपि दध्यौ तावत् सविस्मयः ॥ २४९ ॥ अहो ! विमानमनया खेचर्येव कृतं कथम् । अत्राऽऽरुह्य त्रियामायां कुत्र चैषा प्रयास्यति ॥ २५०॥ अथवा किं विकल्पेनाऽदृश्यरूपोऽनया सह । गत्वाऽहमपि वीक्षे तद् यत् करोत्यसको खलु ॥ २५१॥ इति ध्यात्वा विमानैकदेशेऽध्यारुह्य सोऽचलत् । उत्तराभिमुखं तच्च गत्वा दूरमवातरत् ॥२५२॥ महासरोवरासने तत्राऽशोकवनान्तरे । एको विद्याधरस्तेन कुमारेण निरीक्षितः ॥२५३॥
॥ १३५॥