SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ कुमारोवोचत स्वस्थः कुरु मन्त्रस्य साधनम् । को नाम कर्तु विघं ते समर्थों मयि रक्षके ॥ २२६॥ कृत्वाऽथ मण्डलं तत्र स्थापितो योगिना शवः प्रचाल्य वह्नि तस्याऽऽस्ये चक्रे होमविधिस्ततः ॥ २२७॥ पूरयन्निव दिक्चक्रं गगनं स्फोटयन्निव । निर्घातोऽभूद् गुरुतरो विश्वं बधिरयन्निव ॥ २२८॥ संजाताऽथ द्विधा धात्री तेन रन्ध्रेण निर्गतः । कालः करालः पातालाद् नर एकोऽतिभीषणः ।। २२९ ॥ ऊचे च किमरे ! पाप! दिव्यकान्ताभिलापुकः(क) क्षेत्रलोत्र विज्ञातो मेघनादस्त्वया नहि ॥ २३० ॥ मम पूजामकृत्वा त्वं मन्त्रसिद्धं समीहसे । एपोऽपि राजतनयस्त्वयाऽऽयो विप्रतारितः ॥२३१ ।। इत्युक्त्वा सिंहनादं सो विदधे तजिघांसया। त्रयोऽपि योगिनः शिष्या निपेतुस्ते महीतले ॥ २३२॥ सोऽथ प्रोक्तः कुमारेण रे! त्वं गर्जसि कि वृथा ? | विद्यते तव शक्तिश्चेत्तयुध्यस्व मया सह ॥ २३३॥ कुमारोऽप्यमुचत् खड्गं तं निरीक्ष्य निरायुधम् । प्रचण्डभुजदण्डाभ्यां तौ युद्धं चक्रतुस्ततः ॥ २३४ ॥ युध्यमानोऽथ स क्षेत्रपालो बलवता क्षणात् । कुमारेण समाक्रान्तो वज्रसारस्ववाहुना ॥२३५॥ सोऽथ तुष्टोऽब्रवीत् साधो! निर्जितोऽहं त्वया खलु याचस्व रुचितं किञ्चिद्यते सम्पादयाम्यहम् ॥ २३६ ॥ जगादेवं कुमारस्तं विमुच्य स्वभुजग्रहात् । चेत्सिद्धोऽसि कुरु त्वं तद्योगिनोऽस्य समीहितम् ॥ २३७॥ प्रोक्तं क्षेत्राधिपेनाऽस्य यथेप्सितफलप्रदः। सिद्धः सर्वोत्तमो मन्त्रो माहात्म्येन तवैव हि ॥ २३८॥ ततः स्वं वाञ्छितं ब्रूहि येन तत्पूरयाम्यहम् । महाभाग्य ! भवेद्यस्मादमोघं देवदर्शनम् ॥ २३९ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy