SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रम् ॥१३४॥ प्रस्ताव: व्याघ्रकृत्तिनिपण्णोऽसौ कुमारेण निरीक्षितः । लगयित्वा शिरो भूमौ भक्तिपूर्व च वन्दितः ॥ २१२ ॥ ससम्भ्रमः स योगीन्द्रो दर्शयित्वा स्वमासनम् । त्वमप्युपविशात्रेति कुमारं तमभापत ॥२१३ ॥ विनीतात्मा कुमारस्तं प्रत्यूचे भगवन् ! न मे । गुरोः समासने युक्तमुपवेष्टुं कदाचन ॥२१४॥ स्वपदात्युत्तरीयेऽथोपविश्यैवं जगाद सः । प्रभो ! त्वया कृतार्थोऽहं कृतोऽभ्येत्य पुरे स्वयम् ॥ २१५ ॥ योग्यप्यूचे कुमार! त्वं मान्योऽसि मम सर्वदा । परं निष्किञ्चनोऽस्म्येष स्वागतं किं करोमि ते ॥ २१६ ॥ कुमारोऽप्यनवीदाशीर्वाद एव भवादृशाम् । स्वागतस्य क्रियाऽस्माकमित्युक्ते सोऽवदत् पुनः॥ २१७॥ भक्तिः प्रेम प्रियालापः सम्मान विनयस्तथा । प्रदानेन विना लोके सर्वमेतद् न शोभते ॥२१८॥ कुमारः पुनरप्यूचे सम्यग्दृष्टयावलोकनम् । सम्यगाज्ञाप्रदानं च विश्राणनमिदं हि वः ॥२१९ ॥ अथाभापिष्ट योगीन्द्रो भद्र ! मन्त्रोऽस्ति मे वरः।चक्रे तस्याश्ट वर्षाणि मया जापपरिश्रमः ॥ २२० ॥ तस्य विनप्रतिघातं यद्येकरजनी भवान् । करोति तदयं सर्वः प्रयासः सफलो भवेत् ॥२२१ ॥ सोजदत्तन्मया कार्य त कस्मिन् दिने प्रभो ।। योगी स्माहासितचतुर्दश्यां प्रेतवने निशि ॥ २२२ ॥ खड्गव्यग्रकरेणैकाकिना राजसुत ! त्वया । आगन्तव्यमहं तत्र स्थास्याम्यात्मचतुर्थकः ॥२२३॥ (युग्मम् ) एवमस्त्विति जल्पित्वा कुमारः स्वगृहं गतः । चतुर्दश्याश्च यामिन्यां तथा तत्र ययावसौ ॥२२४ ॥ कुमारो योगिनामाणि भविष्यन्ति विभीषिकाः। तत्त्वया रक्षणीयोऽहमेते चोत्तरसाधकाः ॥ २२५॥ SEXSXXXXXXXXXXXXXXX १३४ BABA
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy