SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ EXEEEEEEEEEEEEEEEEEKARXXX विचिन्त्य कनकवत्योक्तम् 'तरी' इति ॥ तया चापाठि:पयोधरमराक्रान्ता तन्वङ्गी गुणसंयुता । नरस्कन्धसमारूढा का प्रयात्यवलम्बिता ? ॥२०१॥ . .. कुमारेणोक्तम्-कावाकृतिः ॥ क्षणं विनोदं कृत्वैवं कलावत्या तया सह । गुणधर्मकुमारः स्वप्रासादं पुनरागत: ॥ २०२॥ स्नातभुक्तविलिप्तस्याऽऽस्थानस्थस्याऽस्य सन्निधौ । परिवाडाययावेकः प्रतीहारनिवेदितः ॥२०३ ॥ तेन दत्तासनोऽप्येनं स्वकाष्ठासनसंस्थितम् । प्रणामपूर्व पप्रच्छागमहेतुं नृपात्मजः ॥२०४॥ सोवदड्रैरवाचार्येणाऽहं भद्र ! नियोजितः । तवाऽऽह्वानकृते कार्य स एव कथयिष्यति ॥२०५॥ कास्त्यसो भैरवाचार्यः कुमारेणेति जल्पिते । सोऽब्रवीदमुकस्थाने नगरागहिरस्त्यसौ ॥२०६॥ अहं प्रातः समेष्यामीत्युक्तस्तेन ययावसौ। पपाठावान्तरे तस्य पुरः कालनिवेदकः ॥२०७॥ अयं प्राप्योदयं पूर्व स्वप्रतापं वितत्य च । गततेजा अहो सम्प्रत्यस्तं याति दिवाकरः ॥२०८॥ सन्ध्याकालोचितं कृत्यं कृत्वाऽथ नृपनन्दनः । समतिक्रमयामास यामिनीं सुखनिद्रया ॥२०९॥ पुनः कालनिवेदकेन पठितम्निहतप्रतिपक्षोऽसौ सर्वसचोपकारकृत् । उदयं याति तिग्मांशुरन्योऽप्येवं प्रतापवान् ॥२१ ॥ उत्थाय गुणधर्मोऽथ प्रातःकृत्यं विधाय च । प्रययौ भैरवाचार्यसमीपे सपरिच्छदः ॥ २११॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy