SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ हले त्वत्सङ्गदोषेण कुष्ठी जज्ञे पतिस्तव । ममापि दृष्टिं मा गास्त्वमतोऽपसर दूरतः ॥२९४ ।। सा तेन वचसा दूना तस्थौ श्याममुखी क्षणम् । हास्यमेतदिति प्रोच्य तयैवाह्लादिता ततः ।। २९५ ॥ स सोमचन्द्रः श्रीदेव्या तया साई च भार्यया । साधुसंसर्गतः प्राप्तं श्राद्धधर्ममपालयत् ॥२९६ ॥ अन्ते समाधिना मृत्वा सौधर्मे त्रिदशाविमौ । दम्पती समजायेतां पञ्चपल्योपमस्थिती ॥२९७ ॥ सौधर्मात्सोमचन्द्रात्मा च्युत्वाऽभूत भूपतिर्भवान् । जीवश्युत्वा च श्रीदेव्या जज्ञे त्रैलोक्यसुन्दरी ॥ २९८ ॥ परद्रव्येण यत्पुण्यं भवतोपार्जितं तदा । तदेषा भाटकेनैव परिणीता नृपात्मजा ॥ २९९ ॥ हास्येनापि वयस्यायै यद्दत्तमनया पुरा । तदेतस्यामिह भवे कलङ्कः समभूद् ध्रुवम् ॥३०॥ तदाकर्ण्य विरक्तौ तौ दचा राज्यं स्वसूनवे । राजा राज्ञी च प्रव्रज्या पार्श्व जगृहतुर्गुरोः ॥३०१॥ क्रमेण सोऽथ राजर्पिः सर्वसिद्धान्तपारगः । स्थापितो गुरुणा सरिपदे परिकरावृतः ॥३०२॥ , त्रैलोक्यसुन्दरी साध्वी स्थापिता च प्रवर्तिनी । विपद्योभौ च तावन्ते ब्रह्मलोकमुपेयतुः ॥३०३ ॥ ततश्युतौ मनुष्यत्वं प्राप्यानिमिपतां पुनः । एवं भवे तृतीये तो प्रापतुः पदमव्ययम् ॥३०४ ॥ ॥ इति मङ्गलकलशकथानकम् ॥ १ देवत्वम्. XXXEEEEEEEEEEEEEEEEEN - -
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy