________________
हस्तिनीवपुषः स्पर्शलुब्धोऽय करिपुङ्गवः। आलानवन्धनं तीक्ष्णाङ्कशघातं सहेत भोः। ॥१७४ ॥ त्यजन्ति विषयानेवंविधान सत्पुरुषाः क्षणात् । त्यक्ताः प्रियाः स्वरूपेण गुणधर्मेण ते यथा ॥ १७५॥ चक्रायुधेन पृष्टोऽथ शान्तिनाथो जिनेश्वरः । प्रतिवोधकृते तस्य कथयामास तत्कथाम् ॥१७६॥
इहाऽऽसीद् भरतक्षेत्रे पुरे शौर्यपुराभिधे । दृढधर्म इति ख्यातो विक्रान्तः पृथिवीपतिः ॥१७७॥ यथार्थनाम्नी तस्याऽभूत प्रेयसी शीलशालिनी । तत्कुक्षिसम्भवस्तस्य गुणधर्मामिधः सुतः ॥ १७८॥ कलावानिन्दुवल्लोकलोचनानन्ददायकः । पञ्चत्राण इवाऽशेपकामिनीवल्लभश्च यः ॥१७९॥ सुभगः सरलः शूरः पूर्वाभापी प्रियंवदः । दृढसौहृदः सुरूपः स सर्वगुणसंयुतः ॥१८०॥ इतश्वेशानचन्द्रस्य भूपते रूपसंयुता । सुता कनकवत्यासीद्वसन्तपुरपत्तने
॥१८१ ॥ चक्रे तस्याः कृते राज्ञा स्वयंवरमण्डपः । गुणधर्मोऽथ तत्रागादन्ये च पृथिवीभुजः ॥१८२ ॥ राज्ञा दत्तगृहे स्थित्वा स स्वयंवरमण्डपम् । ययौ द्रष्टुमथो तत्राऽऽगमत् साऽपि नृपात्मजा ॥ १८३ ॥ तया निरीक्षितः सोऽथ तेनासावपि वीक्षिता । जाताच दृष्टिविक्षेपेणाऽनुरागपरात्मनि ॥१८४ ॥ तमीक्षमाणा सानन्दं दृष्टया सा सदनं ययौ । कुमारोऽपि वलित्यागात् सावासे सपरिच्छदः॥१८५॥ निश्युपान्ते कुमारस्य चेट्येका प्रेषिता तया। तस्मै समर्पयामास सकां चित्रस्य पट्टिकाम् ॥१८६ ॥ ददर्श तत्र लिखितां कुमारः कलहंसिकाम् । तद्धः श्लोकमेकं च ततो वाचयति स्म तम् ॥ १८७ ।।
२३