SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ स्या IE**XXET:&######## कस्मिंश्चित्सन्निवेशेऽथ परमान्नेन कारितः । सुमित्राख्यगृहस्थेन पारणं परमेश्वरः ॥ १४६॥ चतुर्ज्ञानधरः सोऽथ ग्रामाकरपुराकुलाम् । स्वामी विहरति स्मोर्वी महासत्वशिरोमणिः ॥१४७ ॥ मासान् छद्मस्थकालेऽष्टौ विहृत्य पुनराययौ । स हास्तिनपुरे तत्र सहस्राम्रवणे वरे ॥१४८॥ तत्र पत्रप्रसूनादिनन्दिभृन्नन्दिनामकः । सुविशालोऽभववृक्षस्तस्थौ तस्य तले प्रभुः ॥१४९ ॥ प्रभोः प्रवर्तमानस्य शुक्लध्याने वरे तदा । कृतपष्ठस्य पौपस्य शुद्धायां नवमीतिथौ । ॥ १५०॥ भरणीस्थे निशानाथे क्षीणकर्मचतुष्टये । उत्पन्नमतुलं नित्यं केवलं ज्ञानमुज्जलम् ॥१५१ ॥ (युग्मम्) चतुर्विधैस्ततो देवैः समेत्य चलितासनः। अकारि रम्यं समवसरणं जिनहेतवे ॥ १५२॥ ऊया योजनमात्रायां वायुनाऽशुभपुद्गलाः । अपनीतास्ततो गन्धोदकेन शमितं रजः ॥१५३ ॥ आयो मणिमयो वप्रः कपिशीर्पसमन्वितः। द्वितीयश्च हेममयः सुरत्नकपिशीर्षक: ॥१५४॥ सुवर्णकपिशीविस्तृतीयो रूप्यनिर्मितः । विमानज्योतिभवनवासिभिस्ते कृताः सुरैः ॥१५५॥ जज्ञे सतोरणा तेपु प्रत्येकं द्वाश्चतुष्टयी। स्वाम्यङ्गाद द्वादशगुणस्तन्मध्येऽशोकपादपः ॥१५६॥ चत्वारि परितस्तस्य सिंहासनवराणि च । छत्रत्रयं चामराणि व्यन्तरैविहितं ह्यदः ॥ १५७॥ प्रविश्य पूर्वद्वारेण कृततीर्थनमस्कृतिः । निपसाद प्रसन्नास्यः पूर्वसिंहासने प्रभुः ॥१५८॥ शेषेपु तत्प्रतिच्छन्दाः पृष्ठे भामण्डलं प्रभोः। पुरः कुसुमवृष्टिश्चाऽऽजानुमात्री सुरैः कृता ॥१५९ ॥ - - X
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy