SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ . पष्ठः शान्तिनाथचरित्रम ॥१३१॥ प्रस्ताव अत्रान्तरे सुराधीशाः सर्वेऽपि चलितासनाः । आययुः शान्तिनाथस्य कर्तु निष्क्रमणोत्सवम् ॥ १३२॥ सर्वार्थसंज्ञां शिविकामारुरोहाऽथ तीर्थकृत | चामराम्यां वीज्यमानो धृतच्छत्रश्च मस्तके ॥१३३ ॥ उत्क्षिप्ता मानुषैः पूर्व शिबिका सा जगद्गुरोः। सुरासुरेन्द्रगरुलनागेन्द्रश्च ततस्ततः ॥१३४ ॥ उद्ढा सा पुरो देवैर्दक्षिणाङ्गे तथाऽसुरैः । पश्चाभागे च गरुलै गैरुत्तरतस्तथा ॥१३५॥ नृत्यं प्रकटयन्ति स्म पुरो भगवतो नटाः । पठन्ति स्मोच्चकैभेट्टाः स्वामिन् ! जय जयेति च ॥ १३६ ॥ सद्गुणान वर्णयन्ति स्मैश्वर्यादीन भुवनोत्तरान् । नानाच्छन्दैर्जगद्भर्तुर्नरा रासकदायकाः ॥१३७ ॥ ततो भम्भामृदङ्गादीन्यातोद्यानि गुरुस्वरम् । वादयन्ति स्म साटोपास्तस्पाठकुशला नराः ॥ १३८॥ चक्रे च हाहाहूहूभ्यां सप्तस्वरसमन्वितम् । सम्मुर्छनाग्रामलयमात्राढ्यं गीतमुत्तमम् ॥१३९ ॥ रम्मा तिलोत्तमा चवोर्वशी मेना सुकेशिका । हावभावविलासाढ्यं नृत्यं चक्रुः पुरः प्रभोः ॥ १४०॥ स एवंविधसामय्या निर्गत्य नगराच्छनैः । उद्यानं प्रवरं प्राप सहस्राम्रवणाऽभिधम् ॥१४१॥ शिविकायाः समुत्तीर्य विमुच्याऽऽभरणान्यथ । पञ्चभिर्मुष्टिभिः केशानुच्चखान जिनेश्वरः ॥१४२ ॥ वस्त्राश्चले गृहीत्वा तान् क्षीराब्धौ मघवाऽक्षिपत् । मृदङ्गनादसंयुक्तं तुमुलं च न्यवारयत् ॥१४३ ॥ ज्येष्ठासितचतुर्दश्यां शशाङ्के भरणीगते । कृत्वा सिद्धनमस्कारं प्रभुश्चारित्रमाददे ॥१४४ ॥ कृतषष्ठतपाः सार्ध सहस्रेण महीभुजाम् । आत्तसामायिकः सोऽथ विजहार महीतले ॥१४५॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy