________________
-
भगवानपि सम्मान्य दैवतं विससर्ज तम् । याम्यां प्रति दिशं सोऽथ चलति स्म सुदर्शनः ॥ ९२ ।। तीर्थस्य वरदामस्याऽऽसन्ने गत्वा स्थितश्च सः। तस्याऽधिष्ठायक शान्तिस्तथैवाऽसाधयत् प्रभुः॥ ९३॥ गत्वाऽथ वारुणीमाशां प्रभासस्याऽधिदैवतम् । साधयित्वोत्तरस्यां तु ययौ सिन्धुनदीतटे ॥९४॥ तत्रापि पूर्वविधिना साधिता सिन्धुदेवता । आगत्याऽऽढौकयत स्नानपीठं रत्नमयं विभोः ॥९५ ॥ शातकुम्भमयाः कुम्भा रौप्या मृन्मयकास्तथा । अन्यां च स्नानसामग्री सुवस्त्राभरणानि च ॥१६॥ ऊचे च सर्वदा स्वामिन्नाज्ञाकारिण्यहं तव । इत्युक्त्वा साऽपि स्वस्थान विसृष्टा विमुना ययौ ॥ ९७॥ उत्तीर्य चर्मरत्नेन सिन्धु सेनापतिस्ततः । विभपान्ते साधयित्वा प्रतीचीखण्डमागतः ॥९८॥ कृतपूजं ततश्चक्रं वैताव्यस्याऽगमत्तले । चैताब्यादिकुमारश्च वशवयंभवत् प्रभोः ॥९९ ॥ गुहाखण्डप्रपाताया द्वारमुद्घाटितं स्वयम् । कृतमालसुरश्चाऽज्ञां जगद्भर्तुः प्रपन्नवान् ॥१०॥ तत्रोन्मग्नाऽथ निममा द्वे नद्यावतिदुस्तरे । चकार वर्धकिः सद्यः पद्यां तत्र मनोहराम् ॥१०१॥ गुहायां प्रविवेशाऽथ प्रभुः सैन्यसमन्वितः । काकिन्याऽथ तमो हतु विदधे मण्डलानि च ॥१०२॥ पञ्चाशयोजनान्येकोनपश्चाशच मण्डली । एवं जज्ञे ससैन्योऽथ परतो निरगाद् बहिः ॥१०३ ॥ तत्रापातचिलाताख्यान म्लेच्छान् भरतचक्रिवत् । क्शे चकार तरसा महापुण्यप्रभावयुक् ॥ १०४॥ सेनान्या साधयित्वाऽथ द्वितीय सिन्धुनिष्कुटम् । हिमवत्पर्वतस्याधिदेवं साधयति स्म सः ॥१०५॥
-