________________
आज्ञाप्य त्रिदर्श नैगमेषिणं हरिणाननम् । ज्ञापयामास तद्देवान घण्टास्फालनपूर्वकम् ॥ ३८ ॥ सर्वे संना देवास्ते हरेरन्तिकमाययुः। विमानं कारयामास प्रधान पालकेन सः
॥३९॥ तत्राधिरुह्य सपरीवारोऽलङ्कारशोभितः। आगादनुपमश्रीको जिनजन्मगृहे हरिः ॥४०॥ तुभ्यं नमस्तीर्थनाथ ! सनाथीकृतविष्टप ! । कृपारससरिनाथ ! नाथ ! श्रीविश्वसेनज! ॥४१॥ कुक्षौ रत्नघरे ! देवि ! जगद्दीपप्रदायिके ! | नमस्तुभ्यं जगन्मातस्त्वं धन्या पुण्यवत्यसि ॥४२॥ त्वमेवाऽमोघजन्माऽसि त्वमेवोत्तमलक्षणा!। पुत्रिणीषु त्वमेवाऽसि पवित्रा भुवनत्रये ॥४३॥ धर्मोद्धरणधौरेय छन्नमोक्षाऽध्वदीपक: । षोडशस्तीर्थनाथोऽयं भगवान सुषुवे यया ॥४४॥ नत्वा स्तुत्वा जिनाधीशं तदम्बां च विशेषतः । दत्वाऽवस्वापिनीं तस्याः प्रतिरूपं निवेश्य च ॥४५॥ पञ्चरूपो बभूवाऽसौ तत्रैको जिनमाददे । एक छत्रं पवि चैको द्वौ च चामरधारिणौ ॥४६॥ (युग्मम्) स ययौ मेरुशिखरं सुरेन्द्रा अपरेऽपि हि । तत्रैयुः स्वर्गभवनवासिनो व्यन्तरास्तथा ॥४७॥ तत्राऽतिपाण्डकम्बलशिलायां शाश्वतासने । सौधर्मेन्द्रो निपसाद धृत्वा जिनपुङ्गवम् ॥४८॥ हेमरूप्यमणिदारुमृन्मयां कलशावलिम् । तीर्थगन्धोदकापूर्णामुवक्षिप्य प्रमदाञ्चिताः ॥४९॥ अच्युताद्याः सुराधीशाश्चक्रिरे जिनमज्जनम् । निःसीमसुकृतापास्तभवाम्भोधिनिमज्जनम् ॥५०॥ (युग्मम्) १ हरिणमुख्यं हरिणपूर्वमिति यावत् ।