SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ पप्रच्छ चान्यदा पूर्वभवे किं विहितं मया ? । यन्मेऽनुपदमायाता विपदः सम्पदोऽभवन् ॥८११॥ सोऽवदत् श्रूयतां राजन् ! जम्बूद्वीपस्य भारते । शूरो नाम नृपोऽभूस्त्वं वसन्तपुरपत्तने ॥८१२ ॥ स शूरः सरलात्मा च क्षमो दाक्षिण्यसंयुतः । स्वभावेनैव निलोभो देवगुर्वचने रतः । ॥८१३॥ दीनादिभ्यो वितीर्णस्वः प्रजापालनतत्परः । युक्तश्चतुर्विधनीत्या न्यायवान् दोपवर्जितः ॥८१४॥ स एवं गुणसंयुक्तो विशेषाच्छीलशोभितः । अतिप्रसक्तो दाने च पालयामास मेदिनीम् ॥८१५॥ सकलान्तःपुरीमध्ये तस्याऽभूदग्रवल्लभा । शूरवेगाभिधानेन विद्याधरकुलोद्भवा ॥८१६॥ ऊढा चापरा तेन रतिचूला नृपात्मजा । तस्यामासक्तचित्तोऽन्याः परितत्याज स प्रिया: ॥८१७॥ अतः परं समाख्यातं सर्व देवतया तव । गन्धवाहगतिसुते यया त्वं परिणायितः ॥८१८॥ स मृत्वा वं महाभाग !जातोऽसि नृपनन्दनः। दानादिधर्ममाहात्म्यामोगसम्पत्समन्वितः॥८१९॥ कृतं चैश्वर्यतः किश्चिदन्तरायककर्म यत् । राज्यभ्रंशादिदुःखं तत् पूर्वे वयसि तेऽभवत् ॥८२०॥ इत्याकर्ण्य समुत्पन्नजातिस्मृतिरसौ नृपः । विशेषपुण्यलाभार्थी जातो दीक्षासमुत्सुकः ॥८२१॥ संस्थाप्य तनयं राज्ये स श्रीशेखरनामकम् । चतसृभिरपि भार्याभिः समं जज्ञे महाव्रती ॥८२२॥ पालयित्वा चिरं दीक्षां कृत्वा च विविधं तपः। मृत्वा समाधिना चान्ते सुरलोकमियाय सः॥ ८२३ ।। देवलोकात परिच्युत्य मनुष्यत्वमवाप्य च । क्षपयित्वाऽखिलं कर्म मुक्तिसौख्यं स लप्स्यते ॥ ८२४ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy