________________
पंचमा
शान्तिनापचरित्रम् पा१२२॥
प्रस्ताव
ASMAASEEEEEEXXXXXXXXXXXS
हा वत्स! वत्स! मा कापीः कर्म हिंस्रं त्वमीदृशम् ।गृहाणेमां जनं यावत् क्षयं नयति नाखिलम् ॥ ७४२॥ स्वगृहे वत्सराजोऽथ कर्णे धृत्वा निनाय ताम् । गाढाम्यर्थनया राज्ञः सर्वपौरजनस्य च ॥ ७४३ ॥ पत्नीभिरर्चिता तस्य स्थित्वा तत्र क्षणान्तरम् । विसृष्टा वत्सराजेन निजं स्थानमियाय सा ॥ ७४४॥ पुनरन्येधुरुधीशस्तत्पत्नीसङ्गमस्पृहः । उपदेशादमात्यानां वत्सराजमदोवदत् । ॥७४५॥ स्थानात कुतोऽपि भो भद्र ! जल्पनीर समानय । येन मे जायते देहं बहुरोगविवर्जितम् ॥ ७४६ ॥ इदं वास्तीति तेनोक्ते कथितं तस्य मन्त्रिभिः। विन्ध्याटव्यां द्वयोरन्योर्मध्यकूपेऽस्ति तज्जलम् ॥ ७४७॥ कुरुतः सर्वदाऽप्येतौ सङ्गमापगमौ गिरी । मीलनोन्मीलने नित्यं स्वभावेनेव लोचने ॥७४८॥ प्रविश्य त्वं मिलित्वापक्रान्तयोरन्तरे तयोः । शीघ्रमेवातिदक्षत्वाद् भद्र ! पानीयमानयेः ॥७४९॥ तमप्यादेशमादाय वत्सराजो गतो गृहे । कथयामास पत्नीनामुपायनिचयौकसाम् ॥७५०॥ ताभिः प्रोचेऽश्वमारुह्य गच्छ त्वं तत्र हे प्रिय ! । सखी नोऽस्ति शकुनिकारूपमृदेवता वरा ॥ ७५१ ॥ ततस्तत्र जगामाऽसौ ज्ञात्वा शकुनिकाऽपि तम् । पूरयित्वाऽम्बुनालाबु तस्य हस्ते समार्पयत् ।। ७५२ ॥ स्वपुरीं स समागत्य नृपस्याम्बु तदार्पयत् । देवतायाः प्रभावेण जजल्पैवं तदुच्चकैः ॥७५३॥ राजस्त्वामथवामात्यान प्रधान वा परं नरम् । तब दुर्बुद्धिदातारं कमहं भक्षयाम्पहो। ॥७५४ ॥ इति नीरवचः श्रुत्वोपविष्टो नृपपर्षदि । विसिमिये जनोऽपूर्णकामो मम्लौ च पार्थिवः ॥७५५॥
१२२॥