________________
पंचमः
शान्तिनायचरित्रम् । ॥१२०॥
प्रस्ताव
पर्यङ्कतुरगलाभ विना वार्ता निजामसौ। राज्ञो न्यवेदयद्वस्त्रं दत्तं देवतयेति च ॥६८८॥ अथाऽज्येयुः कमलश्रीः परलोकमियाय सा । तद्वियोगे नरेन्द्रोऽसौ महाशोकाकुलोऽभवत् ॥६८९ ॥ वत्सराजोऽभ्यधाद् राजन! अनित्याऽखिलवास्तवे। भवे विवेकिनांशोकः कर्तु क्वाऽपि न युज्यते ॥ ६९० ॥ सर्वज्ञभिषगादिष्टं कोष्ठशुद्धिविधायकम् । शोकावेशरुजः शान्त्यै कार्य धौषधं बुधैः ॥६९१ ॥ इत्यादिवचनैस्तस्य परिषिक्तोऽमृतैरिव । सच्छायः सुमनोवांश्चाऽशोकोऽभूत् स महीपतिः ॥ ६९२॥ वत्सोऽथ मन्त्रयामास प्रेयसीभिः सहाऽन्यदा । स्वगृहे भोजयाम्यद्य भूपं वः प्रतिभाति चेत् ॥ ६९३ ॥ ताभिः प्रोचे न ते युक्तं नृपस्याऽऽनयनं गृहे । देहि सत्रैव तत्तस्मै दित्साऽस्ति यदि हे प्रिय! ॥ ६९४ ॥ सोऽवदद्गौरवं कान्ताः भवेनैवं कृते सति । यदीहाऽऽनीयते राजा तन्मे भवति निवृतिः ॥ ६९५॥ जगदुः पुनरप्येता यद्ययं निश्चयस्तव । तदाऽऽनय नृपं तस्य दर्शनीया वयं न तु ॥६९६ ॥ ततोऽसौ सपरीवारं गत्वा भूपं न्यमन्त्रयत् । भोजनायोपरोधेन तस्य मेने नृपोऽपि तत् ॥ ६९७ ॥ निमन्त्र्य पार्थिवं वत्सराजः प्राप्तो निजं गृहम् । वल्लभाभिः सहाऽक्रीडत् तत्रोपरितनावनौ ॥ ६९८ ॥ कियान रसवतीपाको वर्त्ततेऽस्य निकेतने । इति ज्ञातुं प्रतीहारं प्रैपीचत्र महीपतिः ॥ ६९९ ॥ प्रतीहारोऽपि तद्गेहे गत्वा यावद्व्यलोकयत् । तावद्रसवतीपाकं तत्र कश्चिद् ददर्श न ॥ ७००॥ तेनाऽऽगत्य महीभर्तुस्तदाऽऽचख्ये ततोऽपरम् । नरं संप्रेषयामास तदीक्षणकृते नृपः ॥ ७०१॥
Bistandane EEEEEEEEEEEEEEEEEEEEEEEXXXX
॥१२०॥