SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ दध्यौ च हेतुना केन पर्यइकोऽयमिहाऽऽगतः । कथं वाऽयं समारूढो वाजी सप्तमभूमिकाम् ॥ ६७४ ॥ सम्यग्विलोकयामास यावत्तावद्ददर्श सा । शय्यागतं निजं कान्तं कान्ताद्वयसमन्वितम् ॥६७५ ॥ ततो हर्पपूरिताऽङ्गी गत्वा तातस्य सन्निधौ । साऽऽख्यद् गेहोपरितनभूमौ मत्पतिरागतः ॥६७६ ॥ श्रेष्ठन्यचे समभूद्वत्से! कथमेवं तदागतिः। ततः शय्यावलोकादिवार्ताऽचख्ये तयाऽखिला॥ ६७७॥ अत्यद्भुतं तदाऽऽकर्ण्य सोगात्तत्र ससम्भ्रमः । उत्थाय वत्सराजोऽथ सप्रियः प्रणनाम तम् ॥ ६७८॥ पृष्टोऽथ श्रेष्ठिना वत्सः स्ववृत्तान्तं न्यवेदयत् । विस्मितस्तच्चरित्रेण शिरो धूनयति स्म सः ॥ ६७९॥ तद्दिनं समतिक्रम्याऽनुज्ञाप्य श्रेष्ठिनं ततः। निजस्थानं स सम्प्राप्तः शय्यामारुह्य सप्रियः ॥६८०॥ कुर्वत्यौ पुत्रशय्यायाः सदा नीराजनाविधिम् ।धारिणीविमले तस्यां तथास्थं तमपश्यताम् ॥ ६८१ ॥ अपनीय ततो वस्त्रं दृष्ट्वा पुत्रं च सप्रियम् । किञ्चिद्वीशङ्कया तस्याऽपक्रान्ते ते शनैः शनैः ॥ ६८२ ॥ क्षणान्तरेण संप्राप्ते ते विलोक्य समुत्थितः । नमश्चक्रे तयोः पादान वत्सराजः प्रियान्वितः ॥ ६८३ ।। कथयामास वार्ता च निजां विस्मयकारिणीम् । उत्तरीयं ययाचे चपर्यङ्क सार्वकामिकम् ॥ ६८४॥ गत्वा च भूपतेः पार्श्वे विधाय च नमस्कृतिम् । तद्वस्त्रमर्पयामास तत्पत्न्याः कमलश्रियः ॥६८५ ॥ चिरायुर्वत्स ! भूयास्त्वमित्यूचे सा प्रमोदिनी। चक्रे राजाऽपि सत्कारमेतस्याऽऽमरणादिभिः॥ ६८६ ॥ कुत्र चीरं त्वया प्राप्त कवाभ्रान्तोऽसि सुन्दर ! पप्रच्छ चेति भूपालो वत्सराज सविस्मयः ॥६८७॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy