SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ ॥ ६४६ ॥ ॥ ६४७ ॥ ॥ ॥ दत्तासनोपविष्टोऽसौ तया प्रोक्तः सगौरवम् । जानासि वैद्यकं चेचं भद्र ! पीडां निवारय विधाय वत्सराजोऽथ वाचा वैद्यकविस्तरम् । धूमौषध्या महाधूममहरच्चान्यया व्यथाम् वेदनाऽपहृता यावद्भुजा जाता पुनर्नवा । तावत् प्रोचे तया भद्र ! घातदाता त्वमेव मे आमेति भणिते तेन सावादीत्तोषनिर्भरा । याचस्त्र स्वेच्छया भद्र ! तुष्टाऽहं साहसेन ते ततश्च याचितं तेन तत्कन्यायुगलं वरम् । यक्षस्तुरङ्गरूपस्तु पर्यङ्कः कामितप्रदः सञ्जातो गृहभेदोऽयमिति ध्यात्वा जजल्प सा । दत्तमेतत् परं त्वस्य शृणुत्पत्ति त्वमादितः आसीच्चमरचञ्चायां पुर्यां चैताढ्यपर्वते । गन्धवाहगतिर्नाम्ना विद्याधरनरेश्वरः सुवेगामदनवेगे तस्याभृतामुभे प्रिये । रत्नचूलास्वर्णचूले तयोश्च क्रमजे सुते ॥ विवाहचिन्तया पुत्र्योराकुलस्याऽन्यदा गृहे । खेचरेन्द्रस्य तस्याऽगादेको विद्याधरो मुनिः आसयित्वाssसने रम्ये नमस्कृत्य च भक्तितः । पृष्टस्तेन मुनिः पुत्रयोर्भर्त्ता को भविष्यति १ आचख्यौ ज्ञानवानेप वत्सराजो नृपात्मजः । भविष्यत्यनयोर्भर्त्ता गुणवान् भूमिगोचरः तु त्वत्सन्निधौ भावि पाणिग्रहणमेतयोः । मासशेषं महाराज ! तवायुर्वर्तते यतः तर्हि किं कार्यमित्युक्ते भूभुजा सोऽवदत् पुनः । शृणु राजन् ! कुमारोऽसौ भावी भर्त्ता यथानयोः ॥ ६५८ ॥ आसीद्भगिनी पूर्व भूमिगोचरभूपतेः । पित्रा शूराऽभिधानस्य या दत्ता सख्युरात्मनः ॥ ६५९ ॥ ॥ ६५७ ॥ ६४८ ॥ ६४९ ॥ ॥ ६५० ॥ ॥ ६५१ ॥ ॥ ६५२ ॥ ६५३ ॥ ६५४ ॥ ६५५ ॥ ।। ६५६ ॥ ॥ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy