________________
शान्तिनाथचरित्रम् ॥१०॥
प्रथम: प्रस्ताव
केनापि हेतुनेहागात भूत्वा पुंवेपधारिणी । भवत्वेवं कथां तावत् कथयामि निजामहम् ॥ २५३ ।। जगाद च कथा लोकप्रिया चित्रकरी भवेत् । सा च वृत्ता मदीयेऽङ्गे तामाख्यामि निशम्यताम् ॥ २५४ ॥ ततश्चात्मकथा तेनादितस्तत्र प्रकाशिता । तावद्यावदमात्येन गृहानिर्वासितोऽस्म्यहम् ॥२५५ ॥ अत्रान्तरे कृतालीककोपा राजसुताऽवदत् । अमुं गृह्णीत गृणीत रे रे मिथ्याभिभाषिणम् ॥ २५६ ॥ इत्युक्ते पत्तयस्तस्यास्तद्ग्रहार्थ समुद्यताः । तयैव वारिताः शीघ्र स चानीतो गृहान्तरे ॥२५७ ॥ अथैनमासनेऽध्यास्य सिंहमूचे नृपात्मजा । अयि येनाहमुढाऽस्मि स एवायं प्रियो मम ॥२५८॥ किमत्र युज्यते कर्तुमित्युक्तः सोऽपि चाब्रवीत् । अयं तव भवेद्भर्त्ता तदा सेव्योऽपशङ्कितम् ॥ २५९ ॥ सोचे सिंहं तवाद्यापि चित्ते यद्यस्ति संशयः। ततोऽस्य मन्दिरे गत्वा स्थालादीनि विलोकय ॥२६॥ तद्विधातुमथो सिंहो धनदत्तगृहं ययौ । सोऽग्रे छात्रमुखात पुत्रापायं श्रुत्वाऽऽकुलोऽभवत् ॥ २६१ ॥ पुत्रस्य गौरवोदन्तमाख्यायैतेन बोधितः । दर्शयामास च स्थालादीनि तद्भणितोऽस्य सः ।। २६२ ॥ वध्वाः स्वरूपकथनेनाह्राद्य श्रेष्ठिनं ततः । सिंहः पुना राजपुत्र्याः समीपं समुपाययौ ॥२६३ ॥ सिंहेनानुमता साऽथ कृत्वा स्त्रीवेषमुद्भटम् । बभूव वल्लभा तस्य मङ्गलस्य महात्मनः ॥२६४ ॥ ययौ च श्रेष्ठिनो वेश्म तत् युग्मं पार्थिवोऽपि तत् । आकार्य सर्ववृत्तान्तं पृष्ट्वा श्रुत्वा विसिष्मिये ॥ २६५॥ ततस्तत्रैव प्रासादे गत्वा राजाज्ञया पुनः। समं त्रैलोक्यसुन्दऱ्या विललास स मङ्गलः ॥२६६ ॥