________________
XXXXXXXXXXXXX
ततः प्रोक्तो नरेन्द्रेण त्वया स्थेयं ममौकसि । सुरसुन्दरराजस्य मम गेहस्य नान्तरम् ॥२३९ ॥ राजदौकितगेहे सा तस्थौ सबलवाहना । पत्तींश्चेत्यादिशत् स्वादुनीरस्थानं निरीक्ष्यताम् ॥२४॥ पूर्वस्यां दिशि ते तत्तु ज्ञात्वा तस्यै न्यवेदयन् । तन्मार्गे कारितावासेञात्सीत साऽथ नृपाज्ञया ॥ २४१ ॥ गच्छतो नीरपानार्थमन्यदाऽश्वान्निरीक्ष्य तान् । सा दध्यौ मम तातस्य सत्का एते तुरङ्गमाः॥ २४२ ॥ तेषामनुपदं प्रेष्य पुनर्भृत्यान् विवेद सा । भर्तुर्ग्रहाभिधानादिसर्वशुद्धि मनस्विनी ॥२४३ ॥ कलाभ्यासपरं तं च ज्ञात्वा त्रैलोक्यसुन्दरी । उवाच सिंहमेते हि कथं ग्राह्यास्तुरङ्गमाः ॥२४४ ॥ सिंहोवादीवयाऽऽदिष्टोपायेनैव ततश्च सा । सच्छात्रं तं कलाचार्य भोजनाय न्यमन्त्रयत् ॥ २४५॥ भोजनार्थमुपाध्याये तत्राऽऽयाते ददर्श सा। छात्रमध्ये स्वभारं हृदयानन्ददायिनम् तस्मा आसनमात्मीयं स्थालं चादापयत्तदा । अकारयद्विशेषेण गौरवं भोजनादिषु ॥२४७॥ ततो वस्त्राणि सर्वेभ्यो यथायुक्तमदत्त सा । तस्मै निजाङ्गलग्नं च वासोयुग्मं मनोहरम् ॥२४८ ।। उवाच च कलाचार्यमेतन्मध्यात त्वदाज्ञया ।योजानाति स आख्यातु छात्रो मम कथानकम् ॥ २४९॥ सर्वैरपीjया छात्रैनिर्दिष्टः सोऽथ मङ्गलः । उपाध्यायगिरा धीमान वक्तुमेवं प्रचक्रमे ॥ २५० ॥ चरितं कल्पितं किं वा कथयामि कथानकम् । साऽवदच्चरितं ब्रूहि, पर्याप्तं कल्पितेन मोः ॥२५१ ॥ मङ्गलश्चिन्तयामास सैया त्रैलोक्यसुन्दरी | चम्पापुर्यो भाटकेन परिणीता हि या मया ॥२५२ ॥
EXXXXXXXXXXXXXXXXXXXXXXXXXX