________________
कुमारोऽवोचदज्ञातकुलस्य मम कन्यकाम् । कथं ददासि श्रेष्ठयूचे ज्ञातं तव गुणैः कुलम् ॥६१९ ॥ पुनरुक्तं कुमारेण कारणेन गरीयसा । गन्तव्यमस्ति मे दूरं करिष्ये वलितस्त्विदम् ॥ ६२० ॥ इमां परिणयेदानी पश्चाद्गच्छेर्यथारुचि । इत्युक्त श्रेष्ठिना भूयोऽङ्गीकृतं तेन तद्वचः ॥६२१॥ तस्मिन्नेव दिने श्रेष्ठी पाणिग्रहणमेतयोः । अकारयन्निशामेकामुपितोऽसौ तया सह ॥६२२ ॥ द्वितीयेऽहनि गत्यर्थमापृष्टा तेन साऽवदत् । हे कान्त ! कि न जानासि स्वरूपं रागिणामदः।। ६२३ ॥ विरहो वसन्तमासो नवस्नेहो नवं वयः । पञ्चमस्य ध्वनिश्चेति सह्याः पञ्चाग्नयः कथम् ? ॥ ६२४ ॥ वत्सोवादीत कुरङ्गाक्षि ! यामि देशान्तरं न चेत् । तन्मे वह्निप्रवेशः स्यादित्यर्थे नास्ति संशयः॥६२५॥ साध्वोचद्वेणिदण्डोऽयं त्वत्परो विहितो मया। स्थास्याम्यत्र शरीरेण हुदैष्यामि त्वया सह ॥ ६२६ ॥ कुङ्कुमं कज्जलं चैव कुसुमाभरणानि च । लगिष्यन्ति शरीरे मे त्वयि कान्त ! समागते ॥ ६२७ ॥ इत्थं कृतप्रतिज्ञां तां मुक्त्वा सोऽश्रुमुखीं प्रियाम् । श्रेष्ठिनं समनुज्ञाप्य वत्सराजोग्रतोऽचलत् ॥ ६२८॥ ददर्शाऽग्रेऽटवीमध्ये पल्ली भिल्लसमाकुलाम् । बहूँश्च पर्वतांस्तुङ्गान रम्याश्च गिरिनिम्नगाः ॥६२९ ॥ असावेवंविधाष्टव्यां स्थाने चैकत्र सुन्दरे । पश्यति स्म पुरीमेकामभ्रंलिहगृहाञ्चिताम् ॥ ६३०॥ पहिः सरोवरे तस्याः प्रक्षाल्य चरणानने । कृत्वा पर्यस्तिका सेतावपविष्टस्तरोस्तले
॥६३१॥ १ आसनम् ।