________________
पंचमः
शान्तिनाथचरित्रम्
॥११७॥
वलित्वा वत्सराजोऽपि काष्ठमुत्सार्य तल्पतः । तत्र यावदुपाविक्षतमी तावत् क्षयं ययौ ॥६०६॥ सूरोऽपि तस्य शूरस्य प्रतापमिव वीक्षितुम् । तूर्णमारोहति स्मोच्चैरुदयाचलमूर्धनि ॥६०७॥ अत्रान्तरे कुमारी सा जजागार ददर्श च । कुमारमक्षताङ्गं तं ततो हृष्टा व्यचिन्तयत् ॥६०८॥ नूनं कोऽपि प्रभावोऽस्य पुरत्नस्य भविष्यति । यदयं संस्थितो नो मेऽथवा भाग्यानि जाग्रति॥ ६०९॥ यद्यसौ मम भर्त्ता स्यादोगान भुञ्ज ततो ध्रुवम् । अन्यथा विषयाणां मे निवृत्तिरिह जन्मनि ॥ ६१०॥ विचिन्त्यैवमभाषिष्ट सा पिकीमधुरस्वरा । कथं त्वं व्यसनानाथ ! मुक्तोऽसीति निवेदय ? ॥ ११ ॥ तेनापि कथितं तस्यै रात्रिवृत्तं यथातथम् । तच्छ्रुत्वा जातरोमाञ्चकञ्चुका सा मुदं दधौ ॥ ६१२॥ इति संलापपरयोस्तयोर्दासी समागता । तस्या मुखक्षालनार्थ जलमादाय निर्मलम् ॥६१३॥ कुमारमक्षताङ्गं सा दृष्ट्वा हर्षेण पूरिता । श्रेष्ठिनं वर्धयामास तत्क्षेमकथया द्रुतम् ॥६१४॥ स्खलद्गतिप्रचारोऽथ दत्तः श्रेष्ठी ससम्भ्रमः । तयोः समीपमायातो हर्षाः पूरितेक्षणः ॥६१५॥ श्रीदत्ताऽपि समुत्थाय ददौ तस्मै शुभासनम् । सोऽपि तत्र समासीनः कुमारं समभापत ॥६१६ ॥ कथं वीर ! त्वया रात्री निस्तीणों व्यसनार्णवः । कुमारेणाऽपि सर्वोऽपि वृत्तान्तोऽस्य निवेदितः।।६१७ ॥ स ऊचे ते मया दत्ता पुत्रीय प्राणवल्लभा । कल्प इत्यन्यथा लब्धा स्वयमेव त्वया गुणैः ॥ ६१८॥ १ रात्रिः । २ मृतः।
॥ ११७॥